________________ 206 सन्दर्भग्रन्थाः कालग्रहणानापत्तिश्च गतिक्रमेण प्राप्य ग्रहणे हि सन्निहितक्रमेण ग्रहणं स्यात् न तु तुल्यकालमुपलम्भः अनुभवति तून्मीलयन्नेव नयने शाखां शीतमयूखं च / एवं च प्राप्यकारित्वानुरोधेन गोलकातिरिक्तं चक्षुः परैरङ्गीक्रियते गोलकस्य चन्द्रादिप्राप्त्यसम्भवात् / अप्राप्यकारित्वे च गोलकमेव चक्षुस्तच्च न तैजसमिति / तदसत्, अधिष्ठानसम्बद्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वसम्भवात् पृथुतरग्रहणस्य च गोलकनिर्गतस्य महतश्च चक्षुषः पृथ्वग्रत्वेन प्रदीपप्रभाया इवोपपत्तेः, स्वाधिकपरिमाणवद्र्व्यग्राहिणा त्वगिन्द्रियेण व्यभिचारात्, तादृशनियमे मानाभावाच्च / तुल्यकालग्रहणं चासिद्धमेव, तदभिमानस्य कालसन्निकर्षेणैवोपपत्तेः / अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयः / यत्प्राचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लोकानाम् / यत्त्वाहुः शालिकाचार्याः चक्षुर्बाह्यालोकाभ्यामारब्धेन चक्षुषा तावदर्थसंस्पृष्टेन युगपत्तावदर्थग्रहणमिति शाखाचन्द्रमसोस्तुल्यकालग्रहणमुपपद्यत एवेति / तन्न / चक्षुर्बाह्या-लोकाभ्यामारब्धस्य चक्षुषः पृष्ठभागेऽपि सत्त्वात्पृष्ठभागस्थितपदार्थग्रहणापत्तेः / पृष्ठदेशस्थबाह्या-लोकैश्चक्षुरुत्पादे मानाभाव इति चेदग्रदेशस्थबाह्यालोकैरपि तदुत्पादे मानाभावः तदनभ्युपगमेऽपि चाक्षुषोपपादनस्यानुपदमुक्तत्वादिति / / . // रामस्दीयः // गोलकमेव चक्षुर्न तैजसमित्युच्छङ्खलमतं दर्शयति / अत्र केचिदित्यादिना // विषयासम्बद्धं विषयसन्निकर्षरहितम् / एवकारेण सन्निकृष्टग्राहकत्वं व्यवच्छिद्यते गोलकसंयुक्तस्य चक्षुषाऽग्रहणात् अत्र चक्षुःपदं चक्षुरिन्द्रियत्वेनाभिमतपरं न तेजोरूपचक्षुषः स्वमतेऽसत्त्वेऽपि न पक्षाप्रसिद्धिः / नवा पार्थिवगोलकस्य च सन्निकृष्टग्राहकताया:तेनाप्यनङ्गीकारेण यदीत्याद्युत्तरग्रन्थानुत्थितिरिति ध्येयम् / अत्र चोत्तरग्रन्थानुसारादधिष्ठानासम्बद्धग्राहकत्वादिति हेतुरूहनीयः परं त्वाभिमुख्यमव्यवधानं च ग्रहणे प्रयोजकमित्येतन्मतेऽवश्यमङ्गीकरणीयमन्यथा पृष्ठदेशस्थितानां व्यवहितानां च चाक्षुषापत्तिवारणासम्भवात् सिद्धन्तिभिस्तु चक्षुस्संयोगाभावेनैव तद्वारणसम्भवान्न तेषामेतत्कल्पनीयं दूरस्थत्वस्य प्रतिबन्धकताकल्पनं तूभयमतेऽपि समानमिति बोध्यम् / ननूक्तहेतुरप्रयोजक इत्याशङ्कानिरासाय साध्याभावे हेतुरेव न स्यादिति हेतूच्छित्त्यापत्तिरूपमनुकूलतर्फ प्रदर्शयति // यदीत्यादिना // प्राप्यकारि सन्निकृष्टग्राहि / न चैवमिति छेदः / गोलकसम्बद्धमात्रग्राहकं नचेति तदर्थः ग्रहणादित्यन्तस्य चक्षुष इत्यादिः / अत्र प्रदीपप्रभायां वक्ष्यमाणव्यभिचाररूपारुचि परिचिन्त्य स्वाधिकपरिमाणवद्रव्यग्राहकत्वेनापि चक्षुष्युक्तसाध्यसिद्धिः सम्भवतीत्याह // किं चेति // यद्यत्संयुक्तमेव यत्सम्बन्धिफलजनकं तत्तदपेक्षया नात्यन्तन्यूनपरिमाणवदिति सामान्यमुखव्याप्त्यभिप्रायेण दृष्टान्तमाह // न खल्विति // नखरञ्जनिका नखकृन्तनी / तथा चैतव्याप्त्यनङ्गीकारे नखरञ्जनिकापि परशुभेद्यं महादापि छिन्द्यात् / अत्र च स्वाधिकपरिमाणदारोरपि परशुभेद्यत्वदर्शनादात्यन्तिक