________________ विभाग-६ 205 ___ चक्षुषस्तादृशत्वकल्पने किं मानमित्यत्राऽऽह-हि यस्मात्तादृशानामनुमितानां वा पदार्थानां दृष्टेनानुमितानामिति वाऽर्थः / तेषामेवं भवितेति नियोग एवं मा भवितेति प्रतिषेधो वा नोपपद्यते युक्त्यनुसारिणी हि कल्पनेति भावः // 50 // इतीन्द्रियपरीक्षाप्रकरणम् // // न्यायसिद्धान्तमुक्तावली प्रभाटीका // अन्येतु चक्षुर्विषयासंबद्धमेव ग्राह्यं यदि प्राप्यकारि स्यात् तदा रसनादिवदधिष्ठानसंबन्धं गृह्णीयात् नचैवं गोलकासंबन्धग्रहणात् / न च घटदीनां गोलकासंबद्धत्वेपि चक्षुरेव गोलकान्निर्गत्य घटादिना संबध्यत इति वाच्यम्, चक्षुषः प्राप्यग्राहकत्वे स्वतोऽधिकपरिमाणग्राहकत्वानुपपत्तेः यावदवयवावच्छेदेन विषयसंयोगाभावात् नच सर्वावयवावच्छेदेन विषयसंयोगाभावेऽपि चक्षुस्संयोगमात्रेण घटादिग्राहकत्वमात्रवत् तत्समवेताधिकपरिमाणग्राहकत्वे बाधकाभावः सामग्यास्तुल्यत्वादिति वाच्यम् / तथा सति शाखाचन्द्रमसोस्तुल्यकालग्रहणानापत्तेः चक्षुषः शाखाप्राप्त्युत्तरकालमेव चन्द्रप्राप्तिसंभवेन शाखाप्रत्यक्षोत्तरमेव चन्द्रप्रत्यक्षसंभवात् / न चेष्टापत्तिः अनुभवति तून्मीलयन्नेव नयने शाखां शीतमयूखं चेति इति लोकप्रवादविरोधापत्तेः तस्माच्चक्षुषः प्राप्यकारित्वानुरोधेन गोलकातिरिक्तं चक्षुः परैरङ्गीक्रियते गोलकस्य चन्द्रादिप्राप्त्यसंभवात् / अप्राप्यकारित्वसिद्धौ गोलकमेव चक्षुः तत्तु पार्थिवं न तैजसमित्याहुः। तदसत् / अधिष्ठानासंबन्धार्थग्राहिण्याः प्रदीपप्रभाया इव चक्षुषोऽपि प्राप्यकारित्वसंभवात् स्वाधिकपरिमाणद्रव्यग्रहणात् त्वगिन्द्रिये व्यभिचारेण तादृश-नियमे मानाभावात् / तुल्यकालग्रहणं चासिद्धमेव तदभिमानस्य कालसन्निकर्षेणैवोपपत्तेः / अचिन्त्यो हि तेजसां लाघवातिशयेन वेगातिशयः यत् प्राचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लोकानाम् / इदमुपलक्षणं चक्षुषः अप्राप्यकारित्वे सर्वदा घटादिविषयकचाक्षुषापत्तिः कालभेदेन चाक्षुषनियामकस्य चक्षुःक्रियाजन्यस्य तव नियामकत्वाभावादित्यपि बोध्यम् / यदाहुः शालिकाचार्याः चक्षुर्बाह्यालोकाभ्यामारब्धेन चक्षुषा तावदर्थसंस्पृष्टेन युगपत् तावदर्थग्रहणमिति / तन्न यौक्तिकं, चक्षुर्बाह्यालोकाभ्यामारब्धस्य चक्षुषः पृष्ठभागेऽपि सत्त्वात्, पृष्ठभागस्थितपदार्थग्रहणापत्तेः / पृष्ठदेशस्थबाह्यालोकैश्चक्षुरुत्पादे मानाभाव इति चेत् / अग्रदेशस्थबाह्यालोकैरपि तदुत्पादे मानाभावः, तदनभ्युपगमेऽपि चाक्षुषोपपादनस्यानुपदमुक्त-त्वादिति।। // न्यायसिद्धान्तमुक्तावली दिनकरीयः // ___ अत्र केचिदाहुः चक्षुर्विषयासम्बद्धमेव ग्राहकम् / यदि प्राप्यप्रकाशकारि स्यात् तदा रसनादिवदधिष्ठानसम्बद्धं गृह्णीयात् नचैवं गोलकासम्बद्धग्रहणात् / किं च यदि चक्षुः प्राप्य गृह्णीयात्तर्हि स्वतोऽधिकपरिमाणवन्न गृह्णीयात् न खलु नखरञ्जनिका परशुच्छेद्यं छिनत्तीति शाखाचन्द्रमसोस्तुल्य