________________ विभाग-६ 201 नानुमीयमानस्य ............. // 37 // / प्रत्यक्षतोऽनुपर्लब्धिरनुमीयमानस्य नाभावसाधिकेत्यर्थः ननु महत्वाविशेषे सूर्यालोकवत् कथं नेन्द्रियण्युपलभ्यन्ते इत्यत आहद्रव्यगुण .............. // 38 // द्रव्यगुणरुपधर्मस्य = रुपादे र्भेदाद् = वैलक्षण्याद् अनुद्भुतत्वाश्रियमतेऽनुपर्लब्धिरित्यर्थः अनुदभूतरुपवत्वान्नेन्द्रिय प्रत्यक्षतेति भावः पृथिवीत्वतेजस्त्व द्यविशेषादुदभूतरुपा एव कथं न घ्राणादिरश्मय इत्यत आहकर्मकारित ............. // 39 // व्यूहोऽनुद्भुतरुपादिवदवयवपृथिवीकत्वं, कर्मविशेषेणकारितः पुरुषार्थ = भोगमूले प्रत्यक्षे प्रयोजक अन्यथा उद्भूतस्पर्शेन चक्षुषा सन्निकर्षमात्रेण ग्राह्यदाह किं गृह्यतेति प्रत्यक्षाभावोवा = पुरुषार्थः नन्वेवं व्यभिचारान्महत्वं न प्रत्यक्षकारणं स्यादित्यत आहमध्यन्दिन .......... // 40 // मध्यन्दिने उल्काप्रकाशस्य सौरकिरणाभिभवादनुपलब्धिवत् तस्य चक्षुषोप्यनुपलब्धि महत्वकारणत्वाविघटिकेत्यर्थः / सामग्या एव व्यभिचारोदूषणं न कारणस्येति भावः नन्वेवं लोष्टेपि रश्मिः स्यात् सौरतेजोभिभवान्नोपर्लभ्यत इतिचेत् न रात्रावप्यनुपलब्धेः // 42 // अन्यथा सौरतेजो ऽभिव्यभाव्यस्य तस्य लोष्टसत्वे वारप्युपर्लम्भः स्यात्, तदा अनुपलब्धेश्च तन्नास्तीति भावः / अभिभवादेव चक्षुषोऽनुपलब्धिनत्वनुद्भूतरुपादिति तटस्थाशङ्कां निरस्यति बाह्यप्रकाश ........... // 41 // अनभिव्यक्तितः = अनुभूतरुपतत एव चसुषोऽनुपलब्धिर्नत्वाभिभवात् बाह्यप्रकाश साहित्याद् विषयोपर्लब्धेः चक्षुषाजननात् नहि अभिभूतं कार्यक्षममितिभावः / / अथ चक्षुर्ग्रह एवाभिभावाविरोधी न तत् कार्य इत्यत आहअभिव्यक्तौ ........ // 43 // अभिव्यक्तौ = तत्रोद्भूतरुपे प्रमाणसिद्धे एवाभिभवादग्रहः, नच चक्षुषि तत् प्रमाणसिद्धं प्रतिहतंचभिभवे कारणांतरकल्पना गौरवेणेतिभावः /