________________ 200 सन्दर्भग्रन्थाः दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः // 51 // दृष्टानामिवानुमितानामपि पदार्थानां नियोगप्रतिषेधानुपपत्तिः स्वभावप्रतिषेधो नेत्यर्थः फलानु-रोधित्वात् कल्पनाया इति भावः / यद्वा नियोग इतरधर्मकल्पनं प्रतिषेधः स्वधर्मनिषेधः तयोरनुपपत्तिः / न ह्यप्रामाणिकं कल्पयितुं शक्यते प्रामाणिकं निषेद्धं वेति भावः / एवं घ्राणादिकमपि नासारन्ध्राद्यतिरिक्तमनीन्द्रियं प्राप्य कारित्वादिति बोध्यम् / तेषां पार्थिवत्वादिकमग्रे व्यक्तिभविष्यतीति // 51 // न्याय रहस्य तृतीयाध्याय प्रथमाह्निक अथेन्द्रियपरीक्षा / तत्रसूत्रं, कृष्णसारे ........ // 33 // सति = सत्येव / व्यतिरिच्य = अप्राप्य कृष्णसारेणेति शेषः / तथाच ग्राहकत्वादप्राप्य ग्राहकत्वाच्च साधारणधर्मात् गोलके इन्द्रियत्वसंशयः, तत्र लाघवाद् गोलकमेवेन्द्रियमिति बोद्धाः, अतिरिक्तेन्द्रियस्य प्रमाणसिद्धत्वात् लाघवमप्रयोजकमित्यन्पे / व्यतिरिच्च गोलकतो विभज्य,विषयम् प्राप्येतियावत् तथाच प्राप्यग्राहित्वसाधारणधर्मात् इन्द्रियाणि भौतिकानि नवा इति संशयः / अभूतानीति सांख्याः भूतानीति परे / तत्र नैयायिकमतनिरासाय बोद्धानां साङ्ख्यानां चाभिधानं / महदणुग्रहणात् / / 34 // अणुनामिव महतां = पर्वतादीनामपि ग्रहणात्, नच नैयायिकसिद्धचक्षुचा तेषां प्राप्तिरस्ति न्यूनपरिमाणेनाधिकपरिमाणाव्यापनात् महतैवाधिकपरिमाणेनैवाणूनां = न्यूनपरिमाणानां ग्रहणात् व्यापनादिति वार्थः / तथाच सम्बन्धग्रहे अतिप्रसङ्गस्य तत्रापि समानत्वात् किमतिरिक्तेनेन्द्रियेणेति बोद्धाः / अतएवेन्द्रियाणां विभुत्वस्वीकर इति ना सम्बन्धग्रह इत्यभौतिकानीन्द्रियाणि महदर्थग्राहकत्वात् इति सांङ्ख्याः / सिद्धान्तसूत्रं रश्म्यर्थ ......... // 35 // रश्मिना = गोलकस्थेन तादृशगन्धयापि सन्निकर्षात् तयोर्महदर्थोर्ग्रहणं नानुपपन्नमित्यर्थः / महदग्राहकत्वं च प्रदीपादौ व्यभिचरीति हृदयम् / द्रव्यत्वेनोभय सिद्ध भिन्नं न द्रव्यं तत्वेनानुपर्लभ्यमानत्वादित्यभिप्रेत्य बोद्ध आक्षिपतितदनुपलब्धेरहेतुः // 36 // तेषामिन्द्रियाणानुपलम्भो न ज्ञानं स्वरुपासिद्धेः किन्तु प्रत्यक्षम् नच तद्भावव्याप्तिरस्ति . अतीन्द्रिय द्रव्येव्यभिचारादप्रयोजकत्वाच्चेत्यभिप्रेत्य सिद्धान्त माह