________________ विभाग-६ 199 . सन्निकर्षो न हेतुरित्याशङ्कते। अप्राप्य ग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः // 45 // सिद्धन्तयति। कुडयान्तरितानुपलब्धेरप्रतिषेधः // 46 // अप्रतिषेधः सन्निकर्षहेतुताऽप्रतिषेधः // 46 // ननु सन्निकर्षेहेतुता काचाद्यन्तरितविषयकप्रत्यक्षे व्यभिचारान्न सम्भवतीत्युक्तं तत् कथमप्रतिषेध इति व्यभिचारमुद्धरति / अप्रतिघातात् सन्निकर्षोपपत्तिः // 47 / / काचादिस्वच्छद्रव्येणाप्रतिघातादप्रतिबन्धात् सन्निकर्ष उपपद्यत इत्यर्थः / एतेन चक्षुषि तेजस्त्वमपि साधितं तेजस एव स्वच्छद्रव्येणाप्रतिघातात् प्रदीपादौ तथादर्शनात् // 47 // अत एव तेज एव दृष्टान्तमाह / आदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽभिघातात् // 48 // अभिघातात् संयोगात् // 48 // शङ्कते। नेतरेतरधर्मप्रसङ्गात् / / 49 // अप्रतिघातो न युक्त इतरस्य कुड्यादेः स्फटिकादेइितरस्य स्फटिकादेः कुड्यादेर्वा यो धर्मोऽप्रतिघातः प्रतिघातो वा तत्प्रसङ्गात् / तथा च कुड्यादेः स्फटिकादिधर्मप्रसङ्गेन तदन्तरितस्य प्रत्यक्षं स्फटिकादेः कुड्यादिधर्मप्रसङ्गेन स्फटिकान्तरितस्याप्रत्यक्ष वा स्यादिति भावः // 49 // समाधत्ते / आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः // 50 // आदर्शो उदके च प्रसादस्वाभाव्यात् स्वच्छस्वभावत्वात् तत्संयुक्तनयनरश्मीनामुच्छलितानां मुखादौ संयोगात् मुखादिरुपोपलब्धिर्न तु भित्त्यादौ तथा भवति तथा स्फटिकादेः स्वाभाव्यात् नयनरश्म्यप्रतिघातात् तदन्तरितस्य तथात्वं न कुड्यादेस्तथास्वभावाकल्पनात् / न च वह्नयादेर्घटादिनाऽप्रतिघातवच्चक्षुषोऽपि तेनाप्रतिघातः स्यादिति वाच्यम् / वहन्यादेरतिवेगवत्तयाऽप्रतिघातः स्याच्चक्षुषस्तु दीपालोकादेरिव प्रतिघात एवेति // 50 // चक्षुषः केनचित् प्रतिघातः केनचिन्नेति नियमः कथमित्यत आह /