________________ 198 सन्दर्भग्रन्थाः न रात्रावप्यनुपलब्धेः // 41 // न चक्षुरूपं सौरालोकेनाभिभूतत्वेनाप्रत्यक्षं रात्रावप्यनुपलब्धेः / तथा च चक्षुषो रात्रावनुपलब्धिसम्पादनाय तद्रूपस्यानुद्भूतत्वमेव स्वीकार्यमिति भावः / / 41 // दिवसेऽपि चक्षुषो रूपस्य सौरालोकाभिभवो न भवतीत्याह / बाह्यप्रकाशानुग्रहाद् विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // 42 // न अभिव्यक्तिर्यत इतिव्युत्पत्त्या कार्याभावप्रयोजकतया कारणाभावस्य क्लृप्तत्वादनभिव्यक्तिपदेन उद्भूतरुपविरहो बोध्यते / तेन चक्षुषोऽनुपलब्धिर्न त्वभिभवात् / अभिभवे बाधकमाह। बाह्यप्रकाशानुग्रहात् / सौरालोकादिसहकृताच्चक्षुष इति शेषः / विषयोपलब्धेरित्यर्थः / सौरालोकाभिभूतत्वे तत्सहकारेण प्रत्यक्षजननं न स्यादभिभूतस्य कार्याक्षमत्वात् / उद्भूतरूपवत्त्वे चक्षुरालोकाद्विषयप्रकाशसम्भवेनेतरालोकापेक्षा न स्यादिति भावः // 42 // नन्वभिभूतस्यापि भर्जनकपालस्थवढेर्दाहजनकत्वं दृष्टं तथाभिभूतस्य चक्षुषो विषयग्राहकत्वं कल्प्यम् / एवमनभिभूतालोकसंयोगस्यैव विषयप्रकाशकत्वं वाच्यं नातो वह्निप्रकाशानपेक्षा तथाभिभवश्च दिवसे सौरालोकेनेव रात्रावपि केनचिद्वस्तुनाकल्पनीय इत्यत आह / अभिव्यत्तेऽभिभवात् // 43 // अभिव्यक्तिमात्रे भवन्मतेऽभिभवकल्पनात् / अभिव्यक्तिश्च स्वस्येव परस्यापि न सम्भवति तत्प्रयोजकस्यानभिभूतत्वाभावात् / स्वाभिव्यक्तौ तस्य प्रयोजकत्वकल्पने गौरवदन्यथा भर्जनक पालस्थवह्निना परप्रकाशो भवेत् / एवं रात्रावभिभावकवस्त्वन्तरकल्पने गौरवम् / एवमुष्मादेरप्रत्यक्षाय प्रत्यक्षप्रयोजकमुद्भूतत्वं क्लृप्तं तद्विरहादेव चक्षुषोऽनुपलब्धिः / ननु चक्षुषस्तैजसत्वे किं मानमिति चेत् चक्षुस्तैजसं परकीयस्पर्शाद्यव्यञ्जकत्वे सति परकीयरुपव्यञ्जकत्वात् प्रदीपवदित्यनुमानेनैव तत्सिद्धेः / तत्र मनआदौ व्यभिचारवारणाय सत्यन्तम् / घटादौ व्यभिचारवारणाय विशेष्यदलम् / पटादौ स्वीयरुपव्यञ्जकत्वाद् द्वितीयं परकीयेति / दृष्टान्ते प्रदीपादावसिद्धिचारणाय प्रथमं परकीयेति / प्रभाया दृष्टान्ततासम्भवात् तदपि वा नोपादेयम् / चक्षुःसन्निकर्षे व्यभिचारवारणाय द्रव्यत्वं विशेषणं देयम् / एतदनुमानं च रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणमितिप्रागुक्तसूत्रादवसेयम् / अग्रे च स्पष्टं वक्ष्यति // 43 // क्वचित् प्रत्यक्षमपि प्रमाणयति / नक्तञ्चरनयनरश्मिदर्शनाच्च // 44 // नक्तञ्चराणां बिडालादीनां गोलकरश्मिदर्शनादन्यथा तमसि तस्य प्रत्यक्षं न स्यात् / तथा च तदृष्टान्तेन मानुषादीनां गोलकरश्म्यनुमानमिति भावः // 44 //