________________ विभाग-६ 197 नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः // 37 // अनुमीयमानस्य = 'रूपादिसाक्षात्कारः सकरणको बुद्धित्वादि'त्याघनुमानगम्यस्यायोग्यस्य वस्तुनः। प्रत्यक्षतोऽनुपलब्धिः साक्षात्काराभावः / नाभावहेतुः = न सर्वकालवृत्त्यभावग्राहक इत्यर्थः / तथा च योग्यानुपलब्धिरेवाभावग्राहिका न त्वनुपलब्धिमात्रम् / योग्यता च महत्त्वे सत्युद्भूतरुपवत्त्वं निरुक्तरश्मेश्चोद्भूतरुपविरहान्न योग्यत्वमिति तदनुपलब्धिर्न तदभावसाधिकेति भावः // 37 // ननु महतो द्रव्यस्य चक्षुषः कुतो नोपलम्भ इत्यत आह / द्रव्यगुणाधर्मभेदाच्चोपलब्ध्यनियमः // 38 // द्रव्यमात्रस्योपलब्धिनियमो न द्रव्यगुणधर्मभेदात् द्रव्यगुणधर्मविशेषाणां प्रत्यक्षनियामकत्वात् / .. तत्र द्रव्यधर्मो महत्त्वरूपादिकं गुणधर्म उद्भूतत्वादिः तथा चोद्भूतरुपवत्त्वविरहादेव न चक्षुषः प्रत्यक्षं तादृशरुपविरहश्च प्रत्यक्षाभावादनुमेयः / यद्वा द्रव्यधर्मो महत्त्वोद्भूतरुपादिर्गुणधर्मोऽदृष्टभिन्नत्वादिः / उपलब्ध्यनियमो द्रव्यमात्रस्य गुणमात्रस्य च न प्रत्यक्षनियमः / चकारात् क्रियादीनामप्येवमनियमः // 39 // ननु चक्षुरादावुद्भूतरुपमेव कुतो न स्वीक्रियत इत्यत आह। . कर्मकारितश्चेन्द्रयाणां व्युहः पुरुषार्थतन्त्रः // 39 / / कर्मणे कार्याय प्रत्यक्षात्मककार्याय कारितः स्वीकृत इन्द्रियाणां व्यूहो रचनाविशेषः समूह इति वा / पुरुषार्थसाधक इत्यर्थः / तथा च प्रयोजनविरहेणोद्भूतरूपं न स्वीक्रियत इति भावः / केचित्तु कर्मकारितोऽदृष्टविशेषाधीन इत्यर्थः / तथा चादृष्टविशेष एवोद्भूतरूपविरहे प्रयोजक इत्याहुः / सूत्रमिदं भाष्यकारस्येति केचित् // 39 // ननु महत्त्वे सति रुपवत्त्वमेव प्रत्यक्षप्रयोजकमस्तु किमर्थमुद्भूतत्वं रूपविशेषणमित्यत आह / मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः // 40 // महतो रुपवतश्चोल्काप्रकाशस्य मध्याह्नसम्बन्धिनः सौरालोकेनाभिभवादनुपलब्धिवत् तस्य चक्षुषोऽनुपलब्धिरित्यर्थः / तथा च रूपमात्रस्य व्यभिचारेण न प्रत्यक्षहेतुता / व्यभिचारवारणाय यद्यनभिभूतत्वं रूपविशेषणमुच्यते तदा प्रत्यक्षकरणतया सिद्धस्य चक्षुरादेर्व्यभिचारवारणायानुद्भूतत्वमपि रुपविशेषणं देयमिति भावः // 40 // ननु चक्षुषो रुपे सौरालोकाभिभवादेव न प्रत्यक्षमित्येव किं नोच्यत इत्यत आह।