________________ 196 सन्दर्भग्रन्थाः प्राप्येन्द्रियेणोपलम्भाद् = विषयोपलम्भादन्यथा नेति गोलकातिरिक्तमिन्द्रियमिति विशेषदर्शिन इति तटस्थानां संशयो गोलकमिन्द्रियं न वेति इन्द्रियं गोलकातिरिक्तं न वेति / अत्र व्यतिरिच्य चेत्यादिविशेषविवेचने बौद्धमतनिरासान्न संशय इति सूत्रतात्पर्यम् / तथाहि गोलकं न विषयग्राहकं तदसम्बन्धात् तदसम्बद्धन तद्ग्रहणेऽतिप्रसङ्गात् / तथा च विषयसाक्षात्कारकरणस्यैवेन्द्रियत्वाद् गोलकस्य चातत्त्वेन नेन्द्रियत्वमिति सिद्धमिन्द्रियं गोलकातिरिक्तम् // 33 // तत्रातिरिक्तत्वेऽपि न भौतिकत्वं किं त्वाहङ्कारिकत्वमितिसांख्यमतमाह / महदनुग्रहणात् // 34 // महतो वस्तुनोऽनुग्रहणात् = चक्षुषा साक्षात्कारजननाच्चक्षुर्न भौतिकम् / भौतिकत्वे हि न्यूनपरिमाणेन चक्षुषा महतो व्यापनासम्भवेन तत्साक्षात्कारानुपपत्तिरिति / अथवा महदणुग्रहणादिति पाठः / अणोन्यूँनपरिमाणस्य यथा चक्षुषा ग्रहणं तथाधिकपरिमाणस्यापि ग्रहणादित्यर्थः / तत्र महतो ग्रहणं चक्षुषो भूतत्वे न सम्भवतीत्युक्तम् / केचित्तु पूर्वसूत्रं संशयप्रदर्शनपरम् / तत्र बौद्धनिरासेन संशयनीरासकमिदं सूत्रम् / तथा च कदाचिन्महतः कदाचिदणोश्च ग्रहणाद् विषयेन्द्रियसम्बन्ध एव नियामकोवाच्य इति गोलकस्य तद्बाघात् तदतिरिक्तमिन्द्रियं स्वीकार्यं यत्सम्बन्धासम्बन्धाभ्यां विषयग्रहणाग्रहणनियम इति / नन्वतिरिक्तत्वेऽपि कथं तत्सम्बन्धोऽतिरिक्तमपि किं क्लृप्तान्तर्गतभुत नेत्यत आह / रश्म्यर्थेतीति प्राहुः / अभौतिकानोन्द्रियाणीत्यवतारभाष्यं सूत्रादौ केचिल्लिखन्ति / / 34 // सिद्धान्तयति। रश्म्यर्थसन्निकर्षविशेषात् तद्गहणाम् // 35 // ' रश्मि = चक्षुर्गेलकावच्छिन्नं तेजः, तेनार्थस्य = घटादे रुपादेश्च, सन्निकर्षविशेषः = संयोगसंयुक्तसमवायादिरुपस्तस्मात् / तद्ग्रहणं = महदादिवस्तुग्रहणम् / दीपान्महदणुप्रकाशवद् भौतिकत्वेऽपि सर्वव्यापकत्वमङ्गीकार्यमन्यथा तद्दोषतादवस्थ्यम् / तथा च पुरःपश्चाद्वर्तिनां सर्वेषामेव वस्तूनां ग्रहणप्रसङ्ग इति भावः // 35 // गोलकातिरीक्तेन्द्रियस्य बाघमाशङ्कते बौद्धः / तदनुपलब्धेरहेतुः // 36 // तद् = गोलकातिरिक्तमिन्द्रियम् / न हेतुः = न साक्षात्कारकारणम् / अनुपलब्धेः = अनुपलब्धिबाधितत्वात् / परेषामसतोऽपि भानान्नाश्रयासिद्धिः / अथवा गोलकातिरिक्तं न साक्षात्कारकारणमिन्द्रियं तत्त्वेनाप्रतीयमानत्वादिति // 36 / / समाधत्ते /