________________ विभाग-६ 195 सूत्रः- नेतरेतरधर्मप्रसङ्गात् // 48 // नेतरेतरधर्मप्रसङ्गात् / इतरधर्म इतरत्र प्रसज्यते इतरधर्मश्चेतरत्र यद्यविघातः चक्षूरश्मेः स्फटिकादिभिः कुड्यादिभिरपि प्राप्नोति कुड्यादिभिर्वा प्रतीघातः स्फटिकादिभिरपि प्राप्नोति ? नैष दोषः सूत्रः- आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत् तदुपलब्धिः // 49 // आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः / आदर्शोदकयोः प्रसादो रूपविशेषः स च स्वो भवति नियमात् / कः पुनरयं रूपविशेषः द्रव्यान्तरासंयुक्तद्रव्यसमवायः तस्य वा रूपोपलम्भनसामर्थ्यं स्वो धर्मः स च स्वभावतः तस्य या विद्यमानता उदकादिषु तत्स्वाभाव्यं प्रसादस्वभावत्वाद् आदर्शोदकादिषु नयनरश्मिः प्रतिहन्यते स च प्रतिहतः प्रतिनिवृत्तौ स्वमुखादिना सम्बध्यते तस्य चाग्रसम्बन्धाद्यदभिमुखमग्रं तदभिमुखं मुखादि पश्यतीति यथाग्रतोऽवस्थितस्य पुरुषस्येति आदर्शमुखग्रहणमनुक्रमेण तदप्याशुभावान्न विभाव्यते आदर्शरूपानुग्रहणात् तदनुरञ्चितः प्रत्ययः / शेषं भाष्ये // सूत्रः- दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः // 50 // दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः / प्रमाणस्य तत्त्वविषयत्वाद्-दृष्टानुमिताः खल्विमे द्रव्यधर्मा यथाभूता भवन्ति तथाभूता एव प्रमाणेन प्रतिपाद्यन्ते इमौ च भवता नियोगप्रतिषेधौ देशितौ क्व विषये स्याताम्, न चैतद्युक्तम् न हि यथा धूमेनाग्निप्रतिपत्तिस्तथोदकप्रतिपत्तिरपि भवत्विति / न चोदकप्रतिपत्तिधूमेन भवतीत्यग्निप्रतिपत्तिरपि न युक्ता, अर्थानियुञ्जानो भवानुपेक्षणीयः प्रतिघाताप्रतिघातयोः खलूपलब्ध्यनुपलब्धी व्यवस्थापिके व्यवहितोपलब्ध्यानुमीयते स्फटिकादिभिरप्रतीघात: व्यवहितानुपलब्ध्या च कुड्यादिभिः प्रतीघात इति / यदि प्राप्यकारि चक्षुर्भवति अथ कस्मादञ्जनशलाकादि नोपलभ्यते ? नेन्द्रियेणासम्बन्धात् इन्द्रियेण सम्बद्धा अर्था उपलभ्यन्ते न चाञ्जनशलाकादीन्द्रियेण सम्बद्धम् अधिष्ठानस्यनिन्द्रियत्वात् रश्मिरिन्द्रियं नाधिष्ठानं न रश्मिनाऽञ्जनशलाका सम्बद्धेति // (इति इन्द्रियभौतिकत्वपरीक्षाप्रकरणम् / ) न्यायसूत्र दीपा टीका अथेन्द्रियाणि गोलकातिरिक्तत्वेन भौतिकत्वेन च परीक्षणीयानि / तत्र संशयमाह। कृष्णसारे सत्युपलम्भाद्वयतिरिच्य चोपलम्भात् संशयः // 33 // कृष्णसारे चक्षुर्गोलके सति विषयोपलम्भात् / असति च तस्मिन्ननुपलम्भादिति पूरणीयम् / चकारेण वा व्यतिरेकदर्शनम् / गोलकमेवेन्द्रियमिति बौद्धाः / व्यतिरिच्य = गोलकान्निर्गत्य विषय