________________ 190 सन्दर्भग्रन्थाः कुड्यादिभिः प्रतिषिध्यन्त इति ? न वृत्तिव्यतिरेकेणेन्द्रियसत्त्वे प्रमाणाभावात् येयं विषयग्रहणात्मिका वृत्तिः तां त्यक्त्वा तव्यतिरिक्तमिन्द्रियमिति किं प्रमाणम् ? न चाप्रामाणिकोऽर्थः शक्यः प्रतिपत्तुम्, न च प्रतिषिध्यमानाप्रतिषिध्यमानयोरेकत्वम्, एकत्वे वाऽऽनर्थक्यं वृत्तिः प्रतिषिध्यते निश्चरतीति च / __ अव्यतिरेकाच्च तदुत्पत्तिविनाशधर्मकम्-यदि वृत्त्यव्यतिरेकीन्द्रियं यथा वृत्तेरुत्पादविनाशावेवमिन्द्रियस्यापि प्राप्तुतः। वृत्तेर्व्यक्तिर्नोत्पत्तिरिति चेत् ?-अथ मन्यसे न मया वृत्तेरुत्पत्तिरभ्युपगम्यतेऽपि तु व्यक्ति: न निरोधो विनाशोऽपि तु तिरोभाव इति ? नोत्पत्तिविशेषत्वात्व्यक्तिरुत्पत्तेविशेषः / कथमिति ? नानुपजातविशेषस्य व्यक्तिरिति / अथानुपजातविशेष व्यज्यत इति मन्यसे ? नित्यं व्यक्तिः स्यात् / एतेन विनाशो व्याख्यातः / तिरोभाव इति विद्यमानं न किञ्चिन्निरुद्धं न ह्यनिवृत्तविशेषस्याग्रहणं भवति / न च सर्वनित्यवादिना ग्रहणाग्रहणे युक्तेविशेषस्यानुपजननान्न ग्रहणं विशेषस्यानुपचयान्नाग्रहणमिति / नित्यं व्यापकञ्चेन्द्रियमभ्युपगच्छतः कारणार्थो हीयते कारणं नाम यस्यानन्तरं यद्भवति कारणञ्च नित्यं कार्यञ्च नित्यमिति किं कस्यानन्तरं कार्यकारणभावश्च कथं तयोनित्यत्वात्। . कारकशब्दार्थश्च वाच्यः / ननु करोतीति कारकम् ? सत्यं करोतीति कारकम् न पुननित्यवादिनः किञ्चित्कर्तव्यमस्ति न चासति कर्तव्ये कारकार्थं पश्यामः / व्यक्तौ कारकार्थ इति चेत् ? व्यक्तौ च तुल्यं व्यक्तिरपि व्यड्यवन्नित्येति व्यक्तावपि न कारकार्थोऽस्ति युगपदनेकविज्ञानप्रसङ्गाच्च यदि च वृत्तिवृत्तिमतो नान्या भवति वृत्तिमतोऽवस्थानाद् वृत्तीनामवस्थानमिति युगपदनेकविज्ञानप्रसङ्गः वृत्त्यनेकत्वे चैकमिन्द्रियमनेकं प्राप्नोति वृत्तिभ्योऽनन्यत्वात् / अथ माभूदिन्द्रियभेद इति ? वृत्तीनां तर्खेकत्वं प्राप्नोति वृत्तिवृत्तिमतोरनन्यत्वात् / अथ माभूदयं दोष इत्युभयं नेष्यते ? भेदस्तहि वृत्तिवृत्तिमतोरिति न चान्या गतिरस्ति तस्मादयुक्तम् व्यापकमिन्द्रियं नित्यं चेति // महदणुग्रहणस्य चान्यथासिद्धेरहेतुः-योऽयं हेतुर्महदणुग्रहणादभौतिकानीन्द्रियाणीत्ययमन्यथासिद्धः न महदणुग्रहणमात्रादभौतिकत्वं व्यापकत्वमिन्द्रियाणां शक्यं प्रतिपत्तुं, कस्मात् इदं ? यस्माद्रश्म्यर्थसन्निकर्षविशेषान्महदण्वोर्ग्रहणम् // सूत्रः- रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् // 32 // चक्षुरश्मेरर्थस्य च सन्निकर्षविशेषान्महदण्वोर्ग्रहणं भवति / तत्र सन्निकर्षमात्रात् सामान्यग्रहणं सन्निकर्षविशेषाद्विशेषग्रहणम् / कः पुनः सन्निकर्षस्य विशेषः ? भूयोऽवयवसन्निकर्षानुग्रहः यस्मादयं सन्निकर्षो विशेषप्रतिपत्तिहेतुर्भूयोऽवयवसंयोगैरनुगृह्यते सोऽयमवयवान्तरसंयोगापेक्षोऽवयवीन्द्रियसन्निकर्षः सन्निकर्षविशेष इत्युच्यते स च रश्म्यर्थसन्निकर्षविशेषोऽणुमहतोस्तुल्यो