________________ विभाग-६ भवतीत्यन्यथा महदण्वोर्ग्रहणं सिद्ध्यति / रश्म्यर्थसन्निकर्षश्चावरणलिङ्गः कुड्यादिव्यवहितानामप्रकाशरूपत्वात् अप्राप्यकारित्वे तु न कुड्यादेरावरणसामर्थ्यमस्तीत्यस्ति चाक्षुषो रश्मिः यथा प्रदीपरश्मिरिति // आवरणानुमेयत्वे सतीदमाहसूत्रः- तदनुपलब्धेरहेतुः // 33 // तदनुपलब्धेरहेतुः / न चाक्षुषो रश्मिविद्यत इति सूत्रार्थः / कथमिति ? / उपलब्धिलक्षणप्राप्तत्वादनुमानानुपपत्तिः यत् खलूपब्धिलक्षणप्राप्तं नोपलभ्यते तन्नास्ति यथा घटादि घटादेर्महदनेकद्रव्यवत्त्वरूपवत्त्वानि सन्तीत्युपलभ्यन्ते घटादयः तथा महदनेकद्रव्यवत्त्वरूपवांश्चाक्षुषो रश्मिः कस्मात् प्रत्यक्षतो नोपलभ्यत इति-महत्त्वं तावत् कारणमहत्त्व-बहुत्वप्रचयेभ्यः अनेकद्रव्यवत्त्वमपि कारणबहुत्वादेव रूपस्पर्शवद्धि तेज इति नारूपं तत् एवमशेषोपलब्धिकारणसन्निधाने सति यन्नोपलभ्यते तेन गम्यते नास्तीति // सूत्र:- नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः // 34 // नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः / यत् प्रत्यक्षतो. नोपलभ्यते तदनुमानेनोपलभ्यमानं नास्तीत्ययुक्तम् यथा चन्द्रमसः परभागः पृथिव्याश्चाधोभागः प्रत्यक्षलक्षणप्राप्तावपि न प्रत्यक्षत उपलभ्यते अनुमानेन चोपलब्धेर्न तौ न स्तः / किं पुनरनुमानम् ? अर्वाग्भागवदुभयप्रतिपत्तिः तथा चाक्षुष रश्मे: कुड्याद्यावरणमनुमानं सम्भवतीति / अपरे तु महदनेकद्रव्यवत्त्वाद्रूपवत्त्वाच्चोपलब्धिरित्युपलब्धौ नियमं वर्णयन्ति / नोपलभ्यमान इति किमुक्तं भवति न युक्तो यत्र यत्र महदनेकद्रव्यवत्त्वरूपाणि सन्ति तत्तदुपलभ्यत इति, अपि तु यद्यदुपलभ्यते तत्र तत्र महदनेकद्रव्यवत्त्वरूपाणि सन्तीति ? / एवं तर्हि इदं सूत्रं नोपलब्धेः कारणप्रतिपादकम् सत्स्वभावादितिसत्सु महदनेकद्रव्यरूपेषु उपलब्धिर्न भवतीति नैतान्युपलब्धिकारणमिति // सूत्रः- द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः // 35 // द्रव्यगुणधर्मभेदाच्चोपलब्धिनियम इति / शेषं भाष्ये / कस्मात् तर्हि चाक्षुषो रश्मि!पलभ्यते इति ? उपलब्धिकारणाभावादिति / नैतावदेवोपलब्धिकारणं यन्महदनेकद्रव्यरूपाणि, अपि तु रूपग्रहणाद्रूपविशेषोऽभिधीयते न रूपमात्रम् / एवं च सूत्रम् //