________________ विभाग-६ 189 . न्यायसूत्रन्याय वार्तिकः सूत्र :- कृष्णसारे सत्युपलम्भाद् व्यतिरिच्य चोपलम्भात् संशयः // 30 // कृष्णसारे सत्युपलम्भाव्यतिरिच्य चोपलम्भात् संशयः / कृष्णसारं भौतिकं तस्मिन्ननुपहते विषयोपलब्धिः, कृष्णसारव्यतिरेकेण विप्रकृष्टदेशावस्थितस्य विषयस्योपलब्धिः, सेयं व्यतिरेकोपलब्धिरभौतिकधर्मः, तदेवमुभयधर्मोपलब्धेः संशय इति / कृष्णसारमेव चक्षुः तस्मिन् सति भावाद्रूपग्रहणस्य यस्मादिदं रूपग्रहणं सति कृष्णसारे भवति असति न भवति / यच्च यस्मिन् सति भवत्यसति न भवति तस्य तदिति / यथा कार्यद्रव्यस्य रूपादय इति / न प्रदीपादिभिरनेकान्तात् प्रदीपे सति रूपोपलब्धिर्भवति न च प्रदीपस्य रूपोपलब्धिरित्यनेकान्तः / यस्य कृष्णसारं चक्षुः तस्य सन्निकृष्टविप्रकृष्टयोस्तुल्योपलब्धिप्रसङ्गः / कृष्णसारं न विषयं प्राप्नोति अप्राप्त्यविशेषात् संन्निकृष्टवि... प्रकृष्टयोस्तुल्योपलब्धिः प्राप्नोति / विषयीभावादिति चेत् ?-अथ मन्यसे सन्निकृष्टोऽस्य विषयो भवति विप्रकृष्टो न विषयः एवं च न तुल्योपलब्धिरिति ? नोक्तोत्तरत्त्वात् प्रत्यक्षसूत्र इति / अभौतिकानीत्यपरेसूत्र :- महदणुग्रहणात् // 31 // महदणुग्रहणात् / महदिति महत्तरं महत्तममुच्यते अण्विति अणुंतरमणुतममिति तदिद्मभयं चक्षुष्युपलभ्यमानं भौतिकत्वं चक्षुषो बाधते भौतिकं हि यावद्भवति तावदेव व्याप्नोति अभौतिकं तु व्यापकत्वात् सर्वसम्बद्धम् / न भौतिकेषु प्रदीपादिषु दृष्टत्वात्भौतिकाः प्रदीपादयो महदण्वोः प्रकाशका भवन्तीत्यनेकान्तः प्रदीपाद्यनभ्युपगमे वा महदणुप्रकाशकत्वं चक्षुष एवेत्यसाधारणत्वादहेतुः भौतिकाभौतिकयोनिवृत्तेः / ननु चाभौतिके ज्ञाने महदणुप्रकाशकत्वं दृष्टं ? न दृष्ट-न हि बुद्ध्या महदणुनी प्रकाश्येते, अपि तु प्रकाशो बुद्धिर्न प्रकाशनमिति, अवधारितस्यार्थस्य हानोपादानोपेक्षाबुद्धीनां साधनं बुद्धिरिति नाभौतिकं महदणुप्रकाशकमस्ति / ननु मनो विद्यते ? सत्यं न पुनस्तद्भौतिकं नाप्यभौतिकमिति / एतेनात्मा व्याख्यातः-न भौतिको नाभौतिक इति / यदि मनो नाभौतिकं यदुक्तं भौतिकानीन्द्रियाणि अभौतिकं मन इति तद्व्याहतं ? नाभौतिकार्थस्याभूतात्मकपर्यायत्वात् अभौतिकं मन इति अभूतात्मकं मन इति यावदुक्तं भवति / मुख्यतस्तु मनो न भौतिकं नाभौतिकमिति / नेन्द्रियेऽपि समानत्वात् इन्द्रियमभौतिकमिति यावदुक्तं भवति अभूतात्मकमिति ? / अभूतात्मकं व्यापकं चेन्द्रियं प्रतिपद्यमान इदं पर्यनुयोज्यः व्यवहितार्थग्रहणं कस्मान्न भवति ? किं कारणम्-व्यापकत्वादिन्द्रियस्य न कुड्यादेरावरणसामर्थ्यमस्तीति ? वृत्तिः प्रतिषिध्यत इति चेत् ?-अथ मन्यसे सत्यं व्यापकमिन्द्रियं तस्य तु पुरुषार्थहेतुना क्षोभ्यमाणस्य महदाद् बुद्बुदा इव निःसरन्त्यस्ताः