________________ 188 सन्दर्भग्रन्थाः भिभव इति / स्फटिकान्तरितेऽपि प्रकाशनीये प्रदीपरश्मीनामप्रतीघातः अप्रतीघातात्प्राप्तस्य ग्रहणमिति / भर्जनकपालादिस्थं च द्रव्यमाग्नेयेन तेजसा दह्यते, तत्राविघातात्प्राप्तिः, प्राप्तौ तु दाहो नाप्राप्यकारि तेज इति अविघातादिति च केवलं पदमुपादीयते / कोऽयमविघातो नाम / अव्यूह्यमानावयवेन व्यवधायकेन द्रव्येण सर्वतो द्रव्यस्याविष्टम्भः क्रियाहेतोरप्रतिबन्धः प्राप्तेरप्रतिषेध इति / दृष्टं हि कलशनिषक्तानामपां बहि: शीतस्पर्शग्रहणम् / न चेन्द्रियेणासंनिकृष्टस्य द्रव्यस्य स्पर्शोपलब्धिः / दृष्टौ च प्रस्यन्दपरिस्रवौ / तत्र काचाभ्रपटलादिभिर्नायनरश्मेरप्रतिघाताद्विभिद्यार्थेन सह सन्निकर्षादुपपन्नं ग्रहणमिति // 47 // नेतरेतरधर्मप्रसङ्गात् // 48 // काचाभ्रपट्लादिवद्वा कुड्यादिभिरप्रतीघातः / कुड्यादिवद्वा काचाभ्रपटलादिभिः प्रतीघात इति प्रसज्यते / नियमे कारणं वाच्यमिति // 48 // आदर्शोदकयोः प्रसादस्वाभाव्याद्रूपोपलब्धिवत्तदुपलब्धिः // 49 // आदर्शोदकयोः प्रसादो रूपविशेषः स्वोधर्मो नियमदर्शनात् / प्रसादस्य वा स्वो धर्मो रूपोपलम्भनम् / यथाऽऽदर्शप्रतिहतस्य परावृत्तस्य नयनरश्मेः स्वेन मुखेन संनिकर्षे सति स्वमुखोपलम्भनं प्रतिबिम्बग्रहणाख्यमादर्शरूपानुग्रहात्तन्निमित्तं भवति / आदर्शरूपोपघाते तदभावात्कुड्यादिषु च प्रतिबिम्बग्रहणं न भवति / एवं काचाभ्रपटलादिभिरविघातश्चक्षूरश्मेः कुड्यादिभिश्च प्रतिघातो द्रव्यस्वभावनियमादिति // 49 // दृष्टानुमितानां नियोगप्रतिषेधानुपपत्तिः // 50 // प्रमाणस्य तत्त्वविषयत्वात् / न खलु भोः परीक्ष्यमाणेन दृष्टानुमिता अर्थाः शक्या नियोक्तुमेवं भवतेति / नापि प्रतिषेद्धमेवं न भवतेति / नहीदमुपपद्यतेरूपवद्गन्धोऽपि चाक्षुषो भवत्विति, गन्धवद्वा रूपं चाक्षुषं मा भूदिति, अग्निप्रतिपत्तिवद्धूमेनोदकप्रतिपत्तिरपि भवत्विति, उदकाप्रतिपत्तिवद्वा धूमेनाग्निप्रतिपत्तिरपि मा भूदिति / किं कारणम् / यथा खल्वर्था भवन्ति य एषां स्वो भावः स्वो धर्म इति तथाभूताः प्रमाणेन प्रतिपद्यन्त इति / यथाभूतविषयकं हि प्रमाणमिति। इमौ खलु नियोगप्रतिषेधौ भवता देशितौ काचाभ्रपटलादिवद्वा कुड्यादिभिरप्रतिघातो भवतु कुड्यादिवद्वा काचाभ्रपटलादिभिरप्रतिघातो मा भूदिति / न दृष्टानुमिताः खल्विमे द्रव्यधर्माः / प्रतिघाताप्रतिघातयोधुंपलब्ध्यनुपलब्धी व्यवस्थापिके / व्यवहितानुपलब्ध्याऽनुमीयते कुड्यादिभिः प्रतिघातो व्यवहितोपलब्ध्याऽनुमीयते काचाभ्रपटलादिभिरप्रतिघात इति // 50 // इतीन्द्रियपरीक्षाप्रकरणम् // 7 //