________________ विभाग-६ 187 . ____ तत्र यदुक्तम्-'तदनुपलब्धेरहेतुः' (3 / 1 / 36) इत्येतदयुक्तम् / कस्मात्पुनरभिभवोऽनुपलब्धिकारणं चाक्षुषस्य रश्मे!च्यत इति अभिव्यक्तौ चाभिभवात् // 42 // बाह्यप्रकाशानुग्रहनिरपेक्षतायां चेति चार्थः / यद्रूपमभिव्यक्तमुद्भूतं बाह्यप्रकाशानुग्रहं च नापेक्षते तद्विषयोऽभिभवो विपर्ययेऽभिभवाभावात् / अनुद्भूतरूपत्वाच्चानुपलभ्यमानं बाह्यप्रकाशानुग्रहाच्चोपलभ्यमानं नाभिभूयत इति / एवमुपपन्नमस्ति चाक्षुषो रश्मिरिति // 42 // नञ्चरनयनरश्मिदर्शनाच्च // 43 // दृश्यन्ते हि नक्तं नयनरश्मयो नक्तञ्चराणां वृषदंशप्रभृतीनां तेन शेषस्यानुमानमिति / जातिभेदवदिन्द्रियभेद इति चेद्धर्मभेदमात्रं चानुपपन्नमावरणस्य प्राप्तिप्रतिषेधार्थस्य दर्शनादिति // 43 // . . ___ इन्द्रियार्थसंनिकर्षस्य ज्ञानकारणत्वानुपपत्तिः / कस्मात् अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः // 44 // तृणादिसर्पद्रव्यं काचेऽभ्रपटले वा प्रतिहतं दृष्टमव्यवहितेन सन्निकृष्यते, व्याहन्यते वै प्राप्तिर्व्यवधानेनेति / यदि च रश्म्यर्थसन्निकर्षो ग्रहणहेतुः स्यान्न व्यवहितस्य सन्निकर्ष इत्यग्रहणं स्यात् / अस्ति चेयं काचाभ्रपटलस्फटिकान्तरितोपलब्धिः / सा ज्ञापयत्यप्राप्यकारीणीन्द्रियाणि / अत एवाभौतिकानि / प्राप्यकारित्वं हि भौतिकधर्म इति // 44|| नकुड्यान्तरितानुपलब्धेरप्रतिषेधः // 45 // अप्राप्यकारित्वे सतीन्द्रियाणां कुड्यान्तरितस्यानुपलब्धिर्न स्यात् / प्राप्यकारित्वेऽपि तु काचाभ्रपटलस्फटिकान्तरितोपलब्धिर्न स्यात् // 45 // अप्रतीघातात्संनिकर्षोपपत्तिः // 46 // न च काचोऽभ्रपटलं वा नयनरश्मि विष्टभ्नाति / सोऽप्रतिहन्यमानः सन्निकृष्यत इति // 46 // यश्च मन्यते न भौतिकस्याप्रतीघात इति तन्नआदित्यरश्मेः स्फटिकान्तरितेऽपि दाह्येऽविघातात् // 47 // आदित्यरश्मेरविघातात्स्फटिकान्तरितेऽप्यविघाताद्दाह्येऽविघातात् / अविघातादिति च पदाभिसम्बधभेदाद्वाक्यभेद इति / यथावाक्यं चार्थभेद इति / आदित्यरश्मिः कुम्भादिषु न प्रतिहन्यते. ऽविघातात् / कुम्भस्थमुदकं तपति प्राप्तौ हि द्रव्यान्तरगुणस्योष्णस्पर्शस्य ग्रहणं तेन च शीतस्पर्शा