________________ 186 सन्दर्भग्रन्थाः मनुद्भूतस्पर्शं च प्रत्यक्षं यथा प्रदीपरश्मयः / उद्भूतस्पर्शमनुद्भूतरूपमप्रत्यक्षं यथाऽबादिसंयुक्तं तेजः / अनुद्भूतरूपस्पर्शोऽप्रत्यक्षश्चाक्षुषो रश्मिरिति / कर्मकारितश्चेन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः / यथा चेतनस्यार्थो विषयोपलब्धिभूतः सुखदुःखोपलब्धिभूतश्च कल्प्यते तथेन्द्रियाणि व्यूढानि / विषयप्राप्त्यर्थश्च रश्मेश्चाक्षुषस्य व्यूहः / रूपस्पर्शानभिव्यक्तिश्च व्यवहारप्रक्लृप्त्यर्था / द्रव्यविशेषे च प्रतीघातादावरणोपपत्तिर्व्यवहारार्था / सर्वद्रव्याणां विश्वरूपो व्यूह इन्द्रियवत्कर्मकारितः पुरुषार्थतन्त्रः / कर्म तु धर्माधर्मभूतं चेतनस्योपभोगार्थमिति / अव्यभिचाराच्च प्रतीघातो भौतिकधर्मः / यश्चाऽऽवरणोपलम्भादिन्द्रियस्य द्रव्यविशेषे प्रतीघातः स भौतिकधर्मो न भूतानि व्यभिचरति / नाभौतिकं प्रतीघातधर्मकं दृष्टमिति / अप्रतिघातस्तु व्यभिचारी भौतिकाभौतिकयोः समानत्वादिति // 38 // यदपि मन्यते प्रतिघाताद्भौतिकानीन्द्रियाणि, अप्रतिघातादभौतिकानीति प्राप्तम् / दृष्टश्चाप्रतीघात: काचाभ्रपटलस्फटिकान्तरितोपलब्धेः / तन्न युक्तम् / यस्माद्भौतिकमपि न प्रतिहन्यते काचाभ्रपटलस्फटिकान्तरितप्रकाशात्प्रदीपरश्मीनाम् / स्थाल्यादिषु पाचकस्य तेजसोऽप्रतिघातः / उपपद्यते चानुपलब्धिः कारणभेदात्-. मध्यन्दिनोल्काप्रकाशानुपलब्धिवत्तदनुपलब्धिः // 39 // ... यथाऽनेकद्रव्येण समवायाद्रूपविशेषाच्चोपलब्धिरिति सत्युपलब्धिकारणे मध्यन्दिनोल्काप्रकाशो नोपलभ्यत आदित्यप्रकाशेनाभिभूतः, एवं महदनेकद्रव्यवत्त्वाद्रूपविशेषाच्चोपलब्धिरिति सत्युपलब्धिकारणे चाक्षुषो रश्मिर्नोपलभ्यते निमित्तान्तरतः / तच्च व्याख्यातमनुद्भूतरूपस्पर्शस्य द्रव्यस्य प्रत्यक्षतोऽनुपलब्धिरिति // 39 // अत्यन्तानुपलब्धिश्चाभावकारणं यो हि ब्रवीति लोष्टप्रकाशो मध्यन्दिन आदित्यप्रकाशाभिभवान्नोपलभ्यत इति तस्यैतत्स्यात् न रात्रावप्यनुपलब्धेः // 40 // अप्यनुमानतोऽनुपलब्धेरिति / एवमत्यन्तानुपलब्धेोष्टप्रकाशो नास्ति, न त्वेवं चक्षुषो रश्मिरिति // 40 // उपपन्नरूपा चेयम्बाह्यप्रकाशानुग्रहाद्विषयोपलब्धेरनभिव्यक्तितोऽनुपलब्धिः // 41 // बाह्येन प्रकाशेनानुगृहीतं चक्षुर्विषयग्राहकं तदभावेऽनुपलब्धिः / सति च प्रकाशानुग्रहे शीतस्पर्शोपलब्धौ च सत्यां तदाश्रयस्य द्रव्यस्य चक्षुषाऽग्रहणं रूपस्यानुद्भूतत्वात् / सेयं रूपानभिव्यक्तितो रूपाश्रयस्य द्रव्यस्यानुपलब्धिदृष्टा // 41 //