________________ विभाग-६ 185 अभौतिकानीत्याह कस्मात्महदणुग्रहणात् // 34 // महदिति महत्तरं महत्तमं चोपलभ्यते / यथा न्यग्रोधपर्वतादि / अण्वित्यणुतरमणुतमं च गृह्यते / न्यग्रोधधानादि / तदुभयमुपलभ्यमानं चक्षुषो भौतिकत्वं बाधते / भौतिकं हि यावत्तावदेव व्याप्नोति / अभौतिकं तु विभुत्वात्सर्वव्यापकमिति // 34|| न महदणुग्रहणमात्रादभौतिकत्वं विभुत्वं चेन्द्रियाणां शक्यं प्रतिपत्तुम् / इदं खलुरश्म्यर्थसंनिकर्षविशेषाद्ग्रहणम् // 35 // तयोर्महदण्वोर्ग्रहणं चक्षूरश्मेरर्थस्य च संनिकर्षविशेषाद्भवति / यथा प्रदीपरश्मेरर्थस्य चेति / रश्म्यर्थसंनिकर्षश्चाऽऽवरणलिङ्गः / चाक्षुषो हि रश्मिः कुड्यादिभिरावृतमर्थं न प्रकाशयति यथा / प्रदीपरश्मिरिति // 35 // आवरणानुमेयत्वे सतीदमाहतदनुपलब्धेरहेतुः // 36 // रूपस्पर्शवद्धि तेजो महत्त्वादनेकद्रव्यवत्त्वाच्चोपलब्धिरिति प्रदीपवत्प्रत्यक्षत उपलभ्येत चक्षुषो रश्मिर्यदि स्यादिति // 36 // नानुमीयमानस्य प्रत्यक्षतोऽनुपलब्धिरभावहेतुः // 37 // संनिकर्षप्रतिषेधार्थेनाऽऽवरणेन लिङ्गेनानुमीयमानस्य रश्मेर्या प्रत्यक्षतोऽनुपलब्धि सावभावं प्रतिपादयति / यथा चन्द्रमसः परभागस्य पृथिव्याश्चाधोभागस्य // 37 // द्रव्यगुणधर्मभेदाच्चोपलब्धिनियमः // 38 // भिन्नः खल्वयं द्रव्यधर्मो गुणधर्मश्च महदनेकद्रव्यवच्च विष(भ)क्तावयवमाप्यं द्रव्यं प्रत्यक्षतो नोपलभ्यते स्पर्शस्तु शीतो गृह्यते तस्य द्रव्यस्यानुबन्धाद्धेमन्तशिशिरौ कल्प्येते / तथाविधमेव च तैजसं द्रव्यमनुद्भूतरूपं सह रूपेण नोपलभ्यते स्पर्शस्त्वस्योष्ण उपलभ्यते / तस्य द्रव्यस्यानुबन्धाद् ग्रीष्मवसन्तौ कल्प्येते यत्रत्वेषा भवति / अनेकद्रव्यसमवायादूपविशेषाच्च स्पोपलब्धिः / तत्र रूपं च द्रव्यं च तदाश्रयः प्रत्यक्षत उपलभ्यते / रूपविशेषस्तु यद्भावात्क्वचिद्रूपोपलब्धिः, यदभावाच्च द्रव्यस्य क्वचिदनुपलब्धिः स रूपधर्मोऽयमुद्भवसमाख्यात इति / अनुद्भूतरूपश्चायं नायनो रश्मिः / तस्मात्प्रत्यक्षतो नोपलभ्यत . इति। दृष्टश्च तेजसो धर्मभेद:-उद्भूतरूपस्पर्शं प्रत्यक्षं तेजो यथाऽऽदित्यरश्मयः / उद्भूतरूप