________________ 184 सन्दर्भग्रन्थाः स्वकारणादुपजातः परिणतो वाऽर्थक्षणश्च ययोरप्राप्तयोरेव ग्रहणग्राह्यभावः, व्यवहितविप्रकृष्टौ च न तौ 'तादृशौ तत्किमप्रतीयमानप्राप्तिकल्पनयेत्यर्थः / परिहरति / तच्च नैवमिति / निषेत्स्यतेति हि क्षणभङ्गपरिणामौ भावानां, तेन स्थेमभाजां भावानां स्वरूपयोग्यता वा महत्वादिविषयीभावः सहकारिसाकल्यं वा ज्ञानोपजननं प्रति परिशिष्यते / तत्र स्वरूपयोग्यतामात्रं चेदास्थीयते तदा यदेवा-व्यवहितं सन्निहितं सदजनयद्विज्ञानं विप्रकृष्टमपि व्यवहितमपि तदेवेति तथैव तेन ज्ञानं जनयितव्यम् / अस्ति हि तस्य तदाऽपि स्वरूपयोग्यतेति, सहकारिसाकल्यं तु प्राप्तिरेव, तस्मान्न संबन्धमन्तरेण विषयीभाव इति सूक्तम् / सन्दिग्धः पृच्छति / अथ प्राप्यकारित्व इति / अयमभिसंधिः / कुलालादौ प्राप्यकारिणि दृष्टं यथा विप्रकृष्टो व्यवहितश्च न करोतीति, अप्राप्यकारिणि चायस्कान्तादौ दृष्टं यथा विप्रकृष्टो व्यवहितश्च लौहं मणिमाकर्षति, तस्मात्तत्र प्रमाणं वक्तव्यमिति / उत्तरम् / इन्द्रियत्वमेव प्रमाणम् / तदेव पञ्चावयवोपपन्नमाह / प्राप्यकारीति / यदि तु कश्चित् दृष्टान्तस्य साध्यविकलत्वमुद्भावयेत्वगादीनामप्राप्यकारित्वादिति, तं प्रत्याह / अथ न किंचिदिति / पृच्छति / अथेति / योग्यतयैव हि कारणानि स्वकार्यं कुर्वन्ति, प्राप्तिस्तु स्वरूपयोग्यताप्रयुक्तां व्याप्तिमुपजीवति न त्वस्याः स्वाभाविकं व्यापकत्वमिति भावः / उत्तरं सोऽपीति / सहकारिसाकल्यं तावन्न प्राप्तेरतिरिच्यत इत्युक्तम् / केवलं स्वरूपयोग्यता वक्तव्या / सा चं व्यस्तानामप्यस्तीति यत्र तत्र व्यवस्थितेभ्योऽपि कार्योत्पादप्रसङ्गः / अयस्कान्तमणेरपि चक्षुष इव वृत्तिभेद एषितव्यः / अन्यथा व्यवधानविप्रकर्षयोरपि लोहाकर्षणप्रसङ्गात् / न च व्यवधानविप्रकर्षाभावसहितो लोहमाकर्षति व्यवधानविप्रकर्षयोस्तु तदभावाभावेन न भवतीति सांप्रतम् / प्राप्तेरेव तत्र तत्र कार्योत्पादं प्रति उपयोगस्यावेदितत्वात् / योग्यतामात्रस्य चोपाधेरपाकृतत्वात् / यथा च द्रव्यातिरिक्तस्तद्धर्मः प्राप्तिस्तथा निवेदयिष्यते / तस्मात्सर्वमवदातम् / उपसंहरति / तस्मादिति / यदपि कृष्णसारानुग्रहोपघाताभ्यां दर्शनादर्शनादिति, तत्रोच्यते / तदधिष्ठानानुग्रहोपघाताभ्यां तस्यानुग्रहोपघातौ / यथा कूष्माण्डलतासेचनच्छेदनाभ्यां तत्फलस्यानुग्रहोपघातावत एव हि निर्गताऽप्यच्छिन्नमूला चक्षुःसंततिः कार्याय समर्था न च्छिन्नमूलेति सिद्धम् / // वात्स्यायनभाष्यसमेत न्यायसूत्रम् // अथेदानीमिन्द्रियाणि प्रमेयक्रमेण विचार्यन्ते किमाव्यक्तिकान्याहोस्विद्भौतिकानीति / कुतः संशयः कृष्णसारे सत्युपलम्भाव्यतिरिच्य चोपलम्भात्संशयः // 33 // कृष्णसारं भौतिकं तस्मिन्ननुपहते रूपोपलब्धिः / उपहते चानुपलब्धिरिति / व्यतिरिच्य कृष्णसारमवस्थितस्य विषयस्योपलम्भो न कृष्णसारप्राप्तस्य / न चाप्राप्यकारित्वमिन्द्रियाणाम् / तदिदमभौतिकत्वे विभुत्वात्संभवति / एवमुभयधर्मोपलब्धेः संशयः // 33 //