________________ विभाग-६ 183 मात्रग्रहणं सम्बन्धचतुष्टयव्याप्त्यर्थं तद्यथेन्द्रियेणार्थस्य सम्बन्ध इन्द्रियावयवैरर्थस्यार्थावयवैरिन्द्रियस्येन्द्रियावयवैरावयवानां, न चैतन्निर्य्यतो विना पृथ्वग्रतां भवतीति पृथ्वग्रता सूचिता / यथा वर्तिदेशे पिण्डितमपि तेजः प्रसपत्प्रासादोदरं व्याप्नोति / तत्कस्य हेतोः। पृथ्वग्रत्वादिति / स्वभावतः प्रसरदपि न स्वपरिमाणानुविधायिनं प्रत्ययमाधत्ते किं तु विषयभेदानुविधायिनम् / विषयनिरूपणाधीननिरूपणा हि प्रत्यया नेन्द्रियनिरूपणाधीननिरूपणाः / तदिदमुक्तं विषयभेदानुविधायी प्रत्यय इति। अपरमपि हेतुं दूषयति / यत्पुनरिति / देहमर्थं चान्तरावस्थितस्य पृथिव्यादे: संयुक्तसंयोगाल्पीयस्त्वं भूयस्त्वं चापक्षमाणस्येति / खगानां चोपर्युपरि संचरतां दूरान्तिकभावो बहुलतमालोकावयवभागानां संयुक्तसंयोगाल्पत्वभूयस्त्वाभ्यामवगन्तव्यः / स च तादृगालोकावयवी प्रत्यक्षोऽन्यथा न रूपमात्रेण तदनुमानं शक्यमित्युक्तम् / न च खगानामुपर्युपरि संचरतां दूरान्तिकप्रत्ययः स्यान्न च पतति पतत्रिणीह प्राप्तो नेहेति भवेत्तस्मादन्यथासिद्धिरेव सहान्तरेण ग्रहणादितिवदत्रापि दूषणमिति द्रष्टव्यम् / अपरमपि हेतुं दूषयति / यत्पुनरिति / युगपद्ग्रहणमसिद्धं तदभिमानस्त्वन्यथासिद्धः अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयो यदुदयगिरिशिखरमारोहत्येव मार्तण्डमण्डले भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम्। तादृशं चाक्षुषमपि तेज इति क्रमेणापि गच्छद् युगपत्तत्र तत्र प्राप्तमिति लक्ष्यते। न चैकस्मादेव कर्मणो युगपदूरान्तिकसंयोगा भवन्तीति युक्तम्। तद्धि स्वकार्ये जनयितव्ये स्वाश्रयप्रत्यासत्तिमपक्षते। अन्यथा मथुरास्थस्य देवदत्तस्य कर्म पाटलिपुत्रेण देवदत्तं योजयेत् / वेगाख्यं संस्कारजमपि कर्म न सहसा शरमन्तरालदेशेन च लक्ष्येण च योजयति / तस्मा-न्मिथ्यैव यौगपद्याभिमान इति / चोदयति कथं पुनरिति / अस्ति हि शाखाचन्द्रमसोर्ग्रहणे यौगपद्याभिमान: न चायमसति बाधके मिथ्येति वक्तुं शक्यः सोऽयमबाधितो बोधयत्यप्राप्यकारितां चक्षुष इत्यर्थः / परिहरति / इदमिति ।इन्द्रियं यद्यगत्वाऽनागतमर्थं गृह्णीयात् किमस्य कुड्य-कटद्यावरणमपकुर्यात् / येन तदावृतं न गृह्णीयात् / गतौ तु स्पर्शवता प्रसादरहितेन सैवास्य प्रतिबद्धेति न प्राप्नोति विषयमप्राप्तं च न गृह्णातीति / प्रयोगस्तु चक्षुःश्रोत्रे प्राप्य स्वविज्ञेयं कार्यं कुरुतः जनकत्त्वे सति तदप्राप्तावजनकत्वात् / यज्जनकं सद् यदप्राप्तौ यन्न जनयति तत् तत्प्राप्तावेव तज्जनयति यथा कुम्भजनको मृदामप्राप्तावकुर्वन् कुम्भं तत्प्राप्तावेव करोति तथा चैतत्तस्मात्तथेति / युक्त्यन्तरमाह / दूरान्तिकानुविधानमिति / दूरे नोपलभ्यते अन्तिके चोपलभ्यते अप्राप्तेरविशेषेण दूरेऽप्युपलम्भः स्यादनुपलम्भे वा अन्तिकेऽपि न स्यात्। प्राप्तौ तु दूरं गच्छत् प्रक्षीणं सत् प्राप्तमर्थं न गृह्णाति अतैजसं तैजसमप्यभिभूतं न गृह्णाति यथोल्काप्रकाशं मध्यन्दिने, अनभिमूतं तु मार्डण्डमण्डलं गृह्णात्येवेति / चोदयति / विषयीभावादिति / योग्यो हि तादृश इन्द्रियक्षणः