________________ 182 सन्दर्भग्रन्थाः बहिर्वतित्वादिन्द्रियस्योपपन्नं सान्तरग्रहणमिति चेद् अत उक्तम् / “अधिष्ठानाबहिर्नाक्षं" किं * त्वधिष्ठानदेश एवेन्द्रियम् / कुतः "तच्चिकित्सादियोगतः" / "सत्यपि चाक्ष बहिर्भावे न शक्तिर्विषयेक्षणे / यदि च स्यात्तदा पश्येदप्युन्मील्य निमीलनाद् // " यदि च स्यादुन्मील्य निमीलितनयनो ऽपि रूपं पश्येत् उन्मीलनादस्ति बहिरिन्द्रियमिति / तद्वार्तिककार: सान्तरग्रहणादिति हेतुं विकल्प्य दूषयति यत्तावदिति सान्तरता खल्वप्राप्तिसाहचर्यादप्राप्ति लक्षयति / हेत्वर्थस्य प्रतिज्ञार्थेनाक्षिप्तत्वादभेदेन / तदुक्तं प्रतिज्ञार्थान्न भिद्यत इति / हेतुप्रतिज्ञापदवाच्यत्वेन भेदमुपचर्याक्षेप्याक्षेपकभावो द्रष्टव्यः / तस्य व्यवधायकत्वादिति / रूपवतो ऽप्रसादस्वभावस्य कुड्यादेरित्यर्थः / यत्तु प्रसादस्वभावं तेजः, तन्न गृह्यते किं तु तस्य रूपमात्रं विस्फारिताक्षेण दृश्यते / तदाश्रयं च द्रव्यं साधयिष्यते / न च तद् गुणो द्रव्यस्यान्तरम् / मा भूद् गन्धादिभिरन्तरं च द्रव्यस्य मा च भूतां निरन्तरे द्रव्ये स्वगुणाभ्यामन्तरितत्वात् / न चापातजन्मालोचनं वा विकल्पो वा द्रव्यानुमानं प्रतीक्षते येन रूपज्ञानानुमितं द्रव्यमिन्द्रियार्थयोर्द्रव्ययोरन्तरं स्यात् / अपि च रूपमात्रमगृह्यमाणे द्रव्ये स्वतन्त्रं गन्धादिवद्-गृह्यमाणं कथमन्तरा स्वाश्रयमनुमापयेत् / आकाशादीनामाश्रयाणामग्रहणात् / तस्माद्विविक्तावयव-तेजोऽवयविद्रव्याप्रत्यक्षत्वसमारोपमात्रेण दूषणं, वक्ष्यमाणं त्वन्यथासिद्धत्वदूषणं परमार्थिकं द्रष्टव्यम्। अथाभावो ऽन्तरशब्दवाच्य इति नास्माकं मूर्तद्रव्याभावादन्यदाकाशमस्तीति भावः / दूषयति / स स्वतन्त्रश्चक्षुर्विषयो न भवति / इन्द्रियं चार्थं चान्तराऽभावो ग्राह्यस्तेन सहार्थस्य ग्रहणं सान्तरग्रहणं न चेन्द्रियार्थयोर्मध्ये कस्य चित्संयुक्तस्य वा समवेतस्य वा ग्रहणमस्ति यत्तन्त्रो ऽयमभावो गृह्यते इति भावः / स्यादेतन्मा भूदान्तरालिकं संयुक्तं समवेतं वा विशेष्यं गृह्यमाणमेव तु रूपादि विशेष्यमिति तत्तन्त्रो ऽयमभावस्तद्विशेषणत्वेन निरूपयिष्यते ततश्च सान्तरग्रहणमुपपत्स्यत इत्यत आह तेन सहोपलब्धाविति प्रतीयते हि त्वगादिभिरपीन्द्रियैः प्राप्यकारिभिरौष्ण्याभावविशेषणं शिशिरतरं पाथो न चेन्द्रियाणामत्राप्राप्यकारिता / तस्मादनैकान्तिकम् / अन्वयाभ्युपगमेनैतदुक्तम् / अन्वयाभावे तु विरुद्धमिति भावः / न च तैजसं रूपमन्तरं येन सान्तरग्रहणं स्यादित्याह न चान्या गतिरिति / यथा चैतत्तथोपपादितमधस्तात् / ये तु सान्तर इति ग्रहणमिति हेतुमाहुस्तान्प्रति दूषणमाह यैरपीति / अन्यथासिद्धत्वे हेतुमाह शरीरेति / शरीरावच्छिन्नाः खल्वात्मानः शरीरमेवात्मानमभिमन्यमाना अर्थाननुभवन्ति / तत्र य एव शरीरासम्बद्ध इत्यनुभूयते तमेव सान्तर इति मन्यते / इन्द्रिसम्बन्धो भवतु मा वा भूच् शरीरसम्बन्धेन तस्य स्पर्शादौ न सान्तरत्वाभिमान इत्यर्थः / हेत्वन्तरं दूषयति यदपीति / सम्बन्धमात्रेणेति /