________________ विभाग-६ 181 पीन्द्रियं प्राप्यकारि प्रतिपद्यते, तदा सर्वाणि पक्षीकृत्यकरणत्वादिति वाच्यम् / करणं वास्यादि प्राप्यकारि दृष्टं तथा चेन्द्रियाणि, तस्मात् प्राप्यकारीणीति / ___ अथ पुनर्वैयात्यात् सर्वानेवार्थानप्राप्यकारिणः प्रतिपद्यते, तदा कथम् ? सोऽपि दृष्टसामर्थ्यानां कारणानां सर्वत्र कार्यानुपपत्त्या प्रत्यवस्थेय:यदि खल्वेतानि कारणानि परस्परप्राप्त्यनपेक्षाणि स्वयमनुपजातशक्तिकानि कार्यान्तरमारभन्ते इति कस्मात् कार्यं सर्वत्र न भवतीति वक्तव्यम् / अतो न कारणमप्राप्यकार्यस्तीति / अनेकदण्डचक्रायुदाहरणं लोके इति / तस्माद् व्यवस्थितमिन्द्रियार्थसन्निकर्पोत्पन्नमिति / // न्यायवार्तिकतात्पर्यटीका // आक्षिपति / इन्द्रियार्थसन्निकर्षोत्पन्नमित्ययुक्तमिति सान्तरग्रहणादिति हेतुं विभजते / विप्रकृष्टेति / ननु नार्थो विप्रकृष्टश्चक्षुषस्तत्र प्राप्तेरित्यत आह / न च चक्षुष इति / कस्मादित्यत आह भूतविशेषस्येति / बाह्यो भूतविशेष आलोकस्तस्य प्रसाद इन्द्रियाव्यवधायकत्वं कुड्यादिभ्यो विशेषः यः खलु काचाभ्रपटलादिषु स्वच्छेषु समस्ति / स्यादेतत् अस्ति कृष्णसारलक्षणो भूतविशेषः प्रसन्नान्धस्यापि अतस्तस्यापि रूपोपलब्धिः स्यादित्यत आह / तत्तृष्णापूर्वकेति / रूपोपभोगतृष्णा हि तत्साधनं कृष्णसारमपि विषयीकरोति / एतदुक्तं भवति / भूतविशेषः कर्मापेक्षो रूपं च चक्षाणश्चक्षुरित्युच्यते / कर्मक्षयात् तु प्रसन्नान्धस्य न रूपं चष्ट इति न चक्षुः / अस्तु गोलकमेव चक्षुः किमेतावतापीत्यत आह न चेति / विच्छिन्नं गोलकमर्थादनुभूयत इत्यर्थः / तदेवं वस्तुनः सान्तरस्य ग्रहणमप्राप्यकारित्वे हेतुरुक्तम् / केचित् तु सान्तरम् इति ग्रहणविशेषणं हेतुं कुर्वन्ति तन्मतमुपन्यस्यति / अपरे त्विति / साध्यविपर्ययादस्य व्यतिरेकं दर्शयति / न हि प्राप्यकारिष्विति पक्षधर्मातामाह दृष्टं त्विति / यच्चोक्तमप्राप्यकारित्वे साधनं पृथुतरग्रहणादिति तद्विभजते / पृथुतरेति / व्याश्रयो हि संयोगो ऽल्पमेव संयोगिनमनुरुध्यते न महान्तम् / न जातु रथादिसंयोगा नभो व्यश्नुवते मा भूत्सर्वत्र रथादीनां तत्संयोगादीनां चोपलब्धिः तेन यावन्मात्रं राष्ट्रवनादेर्गोलकेन व्याप्तं तावन्मात्रस्य ग्रहणप्रसङ्गः / हेत्वन्तरं चाह दिगिति / अस्यापि व्यतिरेकमुखेन गमकत्वं दर्शयति / यदि प्राप्यकारीति / अपरमपि हेतुमाह सन्निकृष्टेति / यद्यपि गतिक्षणानां प्रत्येकं स्वाश्रयस्य देशान्तरविभागसंयोगोपजननं प्रति चिरक्षिप्रतायामविशेषः स्वाश्रयप्रत्यासत्तौ चाऽविशेषस्तथाऽप्या चापादानविभागाद् आ च प्रापणीयदेशप्राप्तेरन्तरालवर्ती यावान् गतिक्षणप्रचयः पूर्वापरीभूतो गतिरिह विवक्षितस्तस्य सान्तरत्वं मन्दत्वं विलम्बः / नैरन्तयं पाटवं क्षिप्रता। तामिमां गतिमभिन्दद् नैरन्तर्येण कुर्वदपि सन्निकृष्टमाशु प्राप्नोति न विप्रकृष्टेन तुल्यकालं किन्तु विप्रकृष्टं चिरेणेति / यथोक्तं दिग्नागेन "सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानेऽधिकस्य च / "