________________ 180 सन्दर्भग्रन्थाः कत्वात् तेन सह ग्रहणं न युक्तम् / अथाभावोऽन्तरशब्दवाच्यः ? स स्वतन्त्रश्चक्षुर्विषयो न भवतीति तेन सहोपलब्धावनैकान्तिकम् / न चान्या गतिरस्ति / तस्मात् शून्यमभिधानं सान्तरग्रहणादिति / यैरपि विद्वत्समानैः सान्तरग्रहणादित्यस्य सान्तर इति ग्रहणमित्येतद् व्याख्यानं क्रियते, तदप्ययुक्तम् सान्तर इति ग्रहणस्यान्यनिमित्तत्वात्-अन्यथैव सान्तर इति ग्रहणं भवति, शरीरावधिनिमित्तत्वात्:शरीरमवधिं कृत्वा सान्तरनिरन्तरे भवतः, न पुनरिन्द्रियप्राप्त्यप्राप्त्यपेक्षे / यत्र शरीरमिन्द्रियं चोभयमर्थेन संबध्यते तत्र निरन्तरमिति ग्रहणं भवति / यत्र पुनः इन्द्रियमात्रे सम्बन्धः तत्र सान्तर इति / तस्मात् सान्तर इति ग्रहणस्यान्यनिमित्तत्वात्, न सान्तरग्रहणादप्राप्यकारित्वं सिध्यतीति / ___ यदपि पृथुतरग्रहणादिति तदप्ययुक्तम्, सम्बन्धमात्रेण महदण्वोर्ग्रहणात् / सम्बन्धमात्रैणैव महति वाणौ वा विषयभेदानुविधायी प्रत्यय उपजायते / तस्मादचोद्यमेतदपीति / ___ यत् पुनरेतदुक्तं दिग्देशव्यपदेशादिति, तदपि शरीरावधिनिमित्तत्वेन प्रत्युक्तम् / यत्रेन्द्रियं शरीरं चार्थेन संबध्यते तत्र दिग्देशव्यदेशो न भवति, दूरान्तिकानुविधानं वा / यत्र पुनरिन्द्रियमेव केवलं संबध्यते तत्र शरीरमवधिं कृत्वा संयुक्तसंयोगाल्पीयस्त्वं तद्भूयस्त्वं वापेक्षमाणस्य दिग्देशप्रत्ययाः सन्निकृष्टविप्रकृष्टप्रत्ययाश्च भवन्तीति / / यत्पुनरेतत् शाखाचन्द्रमसोस्तुल्यकालग्रहणादिति, तदपि न, अनभ्युपगमात्, को हि स्वस्थात्मा शाखाचन्द्रमसोस्तुल्यकालग्रहणं प्रतिपद्यते ? कालभेदस्याग्रहणान्मिथ्याप्रत्यय एष उत्पलदलशतव्यतिभेदवदिति। कथं पुनरवगम्यते कालभेदाग्रहणनिमित्त एष युगपत्प्रत्ययो न पुनरेककालग्रहणनिमित्त एवेति ? इदमनुमानम् आवरणानुपपत्तेरिति यद्यप्राप्यकारि चक्षुर्भवति, न कुड्यकटादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः स्यात् / न च व्यवहितार्थोपलब्धिरस्ति / तस्मात् नाप्राप्यकारि / दूरान्तिकानुविधानं चानुपलब्ध्युपलब्ध्योर्न स्यात्-अप्राप्य चक्षुरर्थं गृह्णातीति यदिदमर्थस्य दूरेऽग्रहणम्, अन्तिके च ग्रहणमुभयमेतत् न स्यात् / दृष्टं तु, तस्मात् नाप्राप्यकारि / विषयीभावादिति चेत्, न, सम्बन्धव्यतिरेकेण तु विषयीभावानभ्युपगमात्-अथापीदं स्यात्, यः चक्षुषोविषयीभवत्यर्थः स उपलभ्यते / यस्तु न भवति नासावुपलभ्यते इति / न च व्यवहितानां दूरावस्थितानां वार्थानां चक्षुषो विषयीभावोऽस्ति, तस्मात् न ते गृह्यन्ते इति / तच्च नैवम्, सम्बन्धव्यतिरेकेण विषयीभावानभ्युपगमात्-कः पुनः सम्बन्धव्यतिरेकेण विषयीभावः ? केवलं भवतां संज्ञामात्रं भिद्यते नार्थ इति / मयोच्यते सम्बन्ध इति, भवताभिधीयते विषयीभाव इति / न कश्चिद् विशेष इति / अथ प्राप्यकारित्वे चक्षुषः किं प्रमाणम् ? इन्द्रियत्वमेवप्राप्यकारि चक्षुः, इन्द्रियत्वात्, घ्राणादिवत् / घ्राणादीन्द्रियं प्राप्यकारि दृष्टं तथा च चक्षुः, तस्मात् प्राप्यकारीति / अथ पुनर्न किञ्चिद