________________ विभाग-६ // न्यायवार्तिकः // 'इन्द्रियार्थसन्निकर्षोत्पन्नम्' इत्ययुक्तम् इन्द्रियस्याप्राप्यकारित्वात् / अप्राप्यकारिणी: चक्षुःश्रोत्रे इति एके / तत्र च न्यायं ब्रुवते, अप्राप्यकारि चक्षुः सान्तरग्रहणात् पृथुतरग्रहणांच्चेतिसान्तरस्यार्थस्य विप्रकृष्टदेशावस्थितस्य ग्रहणं दृष्टम्, न तु चक्षुषस्तेन अर्थेन प्राप्तिरस्ति, भूतविशेषस्येन्द्रियभावात् य एवायं कृष्णसारलक्षणो भूतविशेषः स बाह्यभूतविशेषप्रसादानुगृहीतस्ततृष्णापूर्वककर्मापेक्षः चक्षुरित्युच्यते / तथा चोक्तम्; त्योपलब्धिसंवर्तकेन कर्मणा तत्तृष्णापूर्वकेण चक्षुरभिनिर्वृत्तमतो रूपोपलब्धेः कारणं भवतीति / एवं शेषेषु / न च भूतविशेषानुगृहीतस्य गोलकस्य प्राप्तिर्विषयेणास्ति / तस्मात् सान्तरग्रहणादप्राप्यकारीति / अपरे तु सान्तर इति ग्रहणं हेतुं वर्णयन्ति / न हि प्राप्यकारिषु घ्राणादिषु सान्तर इति ग्रहणं दृष्टम्, दृष्टं तु चक्षुषि। पृथुतरग्रहणाच्चराष्ट्रवनादिरूपं च महदुपलभ्यते, न चाक्ष्णोस्तथा पृथ्ववभास इति / दिग्देशव्यपदेशाच्च-यदि प्राप्यकारि चक्षुर्भवेत्, दिग्देशव्यपदेशो न स्यात् / नहि प्राप्यकारिषु घ्राणादिषु एतदस्तीति / सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणाच्चयत् खलु गतिमद्भवति तत् तां गतिमभिन्दत् सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण / शाखाचन्द्रमसो: तुल्यकालग्रहणं दृष्टम् तस्मादप्राप्यकारीति / यत् तावत् सान्तरग्रहणादिति, तदयुक्तम् विकल्पानुपपत्तेः / सान्तरग्रहणमिति कोऽर्थः ? किं तावत् सान्तरस्य ग्रहणमप्राप्तस्य ग्रहणमित्ययमर्थः, आहोस्वित् सहान्तरेण ग्रहणं सान्तरग्रहणमिति / अस्तु तावत् पूर्वः पक्षः, अप्राप्तस्य ग्रहणं सान्तरग्रहणमिति / नन्वयं प्रतिज्ञार्थ एव ततश्च हेत्वभावः / किं कारणम् ? हेत्वर्थस्य प्रतिज्ञार्थेन आक्षिप्तत्वात्-एतदुक्तं भवति, अप्राप्यकारि चक्षुः, अप्राप्यग्रहणादिति न प्रतिज्ञार्थाद् भिद्यते / अथ ब्रूषे सहान्तरेण ग्रहणमिति, किं तदन्तरं नाम, यच्चक्षुषा विषयेण सहोपलभ्यते इति ? किमाकाशमभावो द्रव्यान्तरं वा? यद्याकाशम्, तन्न चक्षुषो विषयः-न ह्याकाशं चक्षुर्ग्राह्यम्, अरूपत्वादिति / अथ रूपवद्रव्यान्तरमन्तरशब्दवाच्यम्, तस्य व्यवधाय