________________ 176 सन्दर्भग्रन्थाः गोवर्धनी टीका ननूक्तमिन्द्रियेषु सम्बन्धान्तरकल्पना स्यादित्याह / नन्विति / ननु शरीरे व्यभिचार इत्यत आह / यद्वेति / अत्र हेतौ बहिःपदं सम्पातायातं मनस्यपि साध्यसत्वात् / दृष्टान्तासिद्धिमपाकरोति / त्वगादीनामिति / तर्कतरङ्गिणी अत्र पूर्वपक्षयति - नन्विति तथा चाभावग्रहे इन्द्रियस्य प्रमाणत्वे सत्रिकर्षकल्पनमेव गौरवमित्यर्थः / शरीरे इति विज्ञानकारणत्वं वर्तते शरीरे, तत्र वस्तुप्राप्यप्रकाशकत्वं नास्ति / यदा घटादिविषयकं ज्ञानमुत्पद्यते तदा शरीरस्य कारणत्वमन्वयव्यतिरेकाभ्यामस्ति / शरीरव्यतिरेकेणज्ञानानुत्पत्तेरिति / परं वस्तुप्राप्यकाशकत्वं नास्ति / घटादीनां समं शरीरेण सम्बन्धाभावाद् व्यभिचार / हेत्वर्थः यद्वेति चक्षु : श्रोत्रे इत्यनुमाने इन्द्रियत्वादयं हेतुः / चक्षु : श्रोत्रे इति पक्षः / वस्तु प्राप्यप्रकाशकत्वं साध्यम्। तथा च यत्र यत्रेन्द्रियत्वं तत्र वस्तुप्राप्यकाशकत्वम् / अत्र मनसि व्यभिचारवारणार्थमिन्द्रियत्वे हेतो : बहिर्पदं विशेषणं देयम् / तथा च बहिरिन्द्रियत्वादिति हेतुः / तेन मनसि हेतुरपि नास्तीति भावः / सम्पातयातमिति अर्थादायातमित्यर्थः /