________________ विभाग-५ 175 . किरणावली द्रव्य भास्कर आप्राप्यकारीति / विषया सम्बद्धमेव ग्राहकं / यदि प्राप्यकारि स्यात् तदा रसनादिवदधिष्ठान सम्बद्धं गृह्णीयात् / नचैवं गोलकासम्बद्धस्य गृह्णणीदित्यर्थः / पृथ्विति / यदि प्राप्य गृह्णीयात्तदा स्वल्पस्याधिकदेशावच्छेदेन प्राप्त्यभावादधिकदेशावच्छिन्नं न गृह्णीयात् नचाधिष्ठानासम्बद्धं स्व सम्बन्धे स्वाधिष्ठानसम्बन्धस्यापि प्रसङ्गादित्यर्थ / न खल्विति / यावदूरं सम्बन्धस्तावदेववछिन्नति। नत्वधिकं तथा प्रकृतेऽपि स्वल्पतागस्यैव ग्रहणं स्यादित्यर्थः / शाखेति / गतिक्रमेण प्राप्य ग्रहणे क्रमिकं ग्रहणं स्यात् तथाचानुभवविरोध इत्यर्थः / काचेति / गत्वा प्राप्य ग्रहणे व्यवधाने ग्रहणं न स्यात् व्यवधायकेन प्रतिबद्धे गमनासंभवादित्यर्थः / न तैजसमिति / प्राप्यकारित्वानुरोधेन हि गोलकातिरिक्तं चक्षुरङ्गीक्रियते गोलकस्य चन्द्रादिप्राप्त्यसंभवात् अप्राप्यकारित्वेतु गोलकमेव ' चक्षुर्नच प्रसन्नान्धानुपपत्तिः अदृष्टविशेष सहितस्य तस्य तत्वादित्यर्थ / अधिष्ठानेति आधेय सम्बद्धस्याधार सम्बन्धानियमेन यथा शरावासम्बद्धग्रहेऽपि प्रदीपः प्राप्यकारी तथा चक्षुरपीत्यर्थः / पृथतरेति / एवं च यावति दूरे सम्बन्ध्यते तावदेव गृह्णातीत्यर्थः / यद्यप्यनिर्गतं गोलकपरिसमाप्तमेव चक्षुस्तथापि निर्गतं महद्भवतीतिभावः / तद्वत् प्रदीपवत् / तेजसः प्राप्तौ क्रमाज्ञानं दृष्टान्तेनाह यदिति यदेव चूडावलम्बनं तदेवालोक इति यथाभ्रम स्तथैव प्रकृतेपीत्यर्थः / चक्षु र्बाह्यालोकाभ्यामारब्धेन चक्षुषा तावदर्थ संसृष्टेन युगपत्तावदर्थ ग्रहणमिति केषाचिन्मतमाहकेचित्विति पृष्टेति एवं हि तस्य चक्षुषः पृष्ट भागेऽपिसत्वात् तत्रस्थमपि गृह्यतेत्यर्थः / ननु चक्षुदेशस्थमेव गृह्यते इति न तदुपलम्भ इत्यतः आह इन्द्रियेति / न ह्यार्जव स्थानं स्वत उपयुज्यते किन्तु प्राप्तिद्वारा सा चेत् पृष्टदेश स्थेनाप्यस्ति तदार्जवं विनापि गृह्येतेत्यर्थः / स्फटिकादीति तथा सछिद्रता तेषां यथा नातिप्रतिबन्ध इत्यर्थः / प्रसाद स्वभवतया सछिद्रताविशेष शालितयेत्यर्थः / येषामिति कुड्यार्त्ति गृहणीयादित्यपि योज्यं ननु प्रतिबन्धकस्य भित्त्यादेः सत्वात् न व्यवहिता व्यवहितमित्युपलक्षणादि ग्रहणमित्यत आह नहीति / भित्यादि हि प्राप्ति विधात द्वारा प्रतिबध्नाति न च प्राप्तेरकारणत्वे तदुपपद्यते / नच स्वत एव प्रतिबन्धकत्वं भित्त्यादेरन्तरालेऽपि भित्त्यादि सत्वे कार्याभाव प्रसङ्गात् / नचान्तरालवर्तिनः प्रतिबन्धकत्वं स्वल्प परिमाणस्य कुड्यादेरन्तराले सत्वे महापरिमाणस्य गजादेरग्रहण प्रसङ्ग इति भावः / तर्कभाषा नन्विन्द्रियाणि सम्बद्धार्थग्राहकाणि / तथा हि - इन्द्रियाणि वस्तुप्राप्यप्रकाशकारीणि / ज्ञानकरणत्वात् आलोकवत् / यद्वा चक्षुःश्रोत्रे वस्तुप्राप्यप्रकाशकारीणी बहिरिन्द्रियत्वात् / त्वगादिवत् / त्वगादीनां तु प्राप्यकारित्वमुभयवादिसम्मतमेव /