________________ 174 सन्दर्भग्रन्थाः व्यञ्जकघृतवत् / दृष्टान्तासिद्विवारणाय परकीयेति; वायुपनीतसुरभिभागादेदृष्टान्तत्व-सम्भवात् नोपादेयमेव वा तत् / एवं रसादिमात्रव्यञ्जकत्वेन रसादौ जलत्वाद्यनुमेयमिति सिद्धान्तिनः / एकदेशिनस्तु - अनुमानमिदमप्रयोजकं, घ्राणाद्योरेकजात्या व्यज्जकत्वं न युक्तिसहम्: एकतरसत्त्वे फलापतेः / इत्थं चैकेनन्द्रियत्वेन जात्या षोढा सन्निकर्षोन्यतमप्रत्यासत्या लौकिकप्रत्यक्षत्वावच्छिनहेतुत्वं निराबाधम् / न च जन्यपृथिवीत्वावच्छिन्न पृथिवीत्वादिना हेतुत्वस्य क्लृप्तत्वात् घ्राणादेः पृथिवी-त्वादिकमेव युक्तम्ः पृथिवीत्वं जलत्वादिकं वेत्यत्र विनिगमकाभावादित्याहुः / उक्तनुमानमेव विनिगमकं "अणुरपी" ति न्यायात् युक्त्यनुग्रहोऽप्यत्रैवेति तु युक्तम् / . प्रकाशटीका चक्षषस्तैजसत्वे पूर्वपक्षमाह - अत्र केचिदिति / न प्राप्यकारि - न सम्बद्धार्थग्राहकम् / ननु चक्षुषः सम्बद्धार्थग्राहकत्वे शाखाचन्द्रमसो; ग्रहणयोगपद्यभिमानः कालसन्निकर्षादपि न संभवति, तयोरतिव्यवहितत्वेन तस्याप्यसम्भवादित्यत आह-अचिन्त्यो हीति / ___ वेगातिशये आचार्योक्तमुदाहरणं यथा- “यत्प्राचीनाचलचूडावलम्बिन्येन मयूखमालिनि भुवनोदरेषु चालोक" (कि. पृ. 74) इति / -- चक्षुषः प्राप्यकारित्वं तत्तद्दूषणनिरासेन साधयित्वाऽप्राप्यकारित्वे बाधकमप्याह- किं च चक्षुष इति / प्राप्तिविघातकतयैव- सम्बन्धविघातकतयैव / ___ बौद्वमतं खण्डयितुमाह-यत्त्विति / तत्र-भित्त्यादिव्यवहितस्थले / अतिशयेति / प्रत्यक्षजननयोग्यत्वात्मकातिशयजनकत्वं तादृशातिशयविशिष्टद्रव्यजनकत्वमिति यावदित्यर्थः / तच्चिन्त्यमिति / चिन्ताबीजं स्वयमेव स्फुटयति - चक्षुस्संयोगत्वादिनेति / चक्षष्टवादेऑतित्वेन तदवच्छिन्न - चक्षुस्संयोगत्वादिना चाक्षुषादिहेतुत्वे लाघवम्; गोलकत्वस्य पार्थिवाप्यादिगोलकसाधारण्यस्य जलत्वादिना सङ्करेण जातित्वाभावात् तदवच्छइन्नसंयोगत्वादिना हेतुत्वे गौरवमित्यर्थः / फलमुखेति / फलं तादृशकार्यकारण भावग्रहो मुखमुपस्थितिबीजं यस्य तादृशगौरवस्यानन्तचक्षुरादिकल्पनागौरवस्येत्यर्थः / घ्राणादिपञ्चकं द्रव्यान्तरमेव, न तु पृथिव्याधारब्धिमित्याक्षिपति-स्यादेतदिति / एकदेशिमतं दूषयति- उक्तानुमानमेवेति / घ्राणादेः पृथिवीत्वादिसाधकानुमानमेवेत्यर्थः / ननूत्कानुमानस्याप्रयोजकत्वात् कथं विनिगमकचमत आह-अणु इति / "अणुरपि विशेषोऽध्यवसायकर" इति न्यायादित्यर्थः / अत्र- घ्राणादेः पृथिवीत्वादौ /