________________ विभाग-५ 171 सावयवद्रव्यारब्धम् इति व्युत्पत्त्या व्यणुकस्यानेकद्रव्यवत्त्वाभावात् / स्थैर्यपक्षाभिप्रायेण घटस्य तत्स्वरूपत्वाद् योग्यताया अनिवृत्तिः / क्षणिकत्वे कुड्याद्यन्तरितस्यापि पुरुषान्तरेणोपलम्भादस्ति तस्मिन्नेव क्षणे योग्यतेति / संयोगाभावः फलादेवृन्तादिनेति / प्रतीतेः इति-कुड्यादिव्यवहितस्यार्थस्येति शेषः / नैतत्सारम् इति-यद्यप्यन्वय व्यतिरेकाभ्यां कुड्यादिसंसर्गप्रागभावस्य कारणत्वावगमात् कुड्याद्यन्तरितत्वे कारणाभावः; तथाप्यावारकं द्रव्यं किमप्यावृण्वत् कार्य प्रतिषेधयति / नैवमेवेति भूयोभूयस्तथादर्शनादिति / तथा च सति इति-ननु व्यवहितार्थप्रकाशकत्वमित्येवं रूपं शिलादावप्यस्ति न तु प्राप्तप्रकाशकत्वमित्यनैकान्तिकत्वम्, नैवम्; प्रकाशकत्वे सति व्यवहितार्थाप्रकाशनस्य चिन्तनात् / बाह्येन्द्रियेति बाह्याग्रहणं मनोव्यवच्छेदार्थम् / अत एव इति / स्वपरिमाणापेक्षया महदल्पं च प्रकाशयतीति तर्कः / अथवा विवादाध्यासितमिन्द्रियम् अभौतिकम्, स्वपरिमाणाधिकपरिमाण प्रकाशकत्वात्, मनोवत् इति परानुमानम् / अत्र अणुग्रहणं दृष्टान्तार्थम्, यथा चक्षुरणुप्रकाशकं तथा महत्प्रकाशकमिति प्रदीपरश्मिभिरनैकान्तिकमित्यर्थः / क्रमाग्रहणनिमित्तोऽयम् इति-अत्र कर्मोत्पादकक्षणसंस्कारोत्पादकक्षणकर्मनाशक्षणकर्मान्तरोत्पादक्षणादिक्षणगणनायामितरवेगवत् साधारणे तेजसोऽपि वेगे शाखाचन्द्रमसोस्तुल्यकालोपलब्ध्यनुपपत्तावितरवेगविलक्षणवेगाभ्युपगम एवोत्तरम् / ननु प्राप्ति इति-यदि चक्षुरिन्द्रियं प्राप्यमर्थं गृह्णाति तर्हि न्यथा स्पर्शनेन प्राप्ते निरन्तरः सम्बद्धोऽयमर्थो मया (गृहीत इति प्रत्ययो भवति तथा चक्षुरिन्द्रियप्राप्तेऽपि स्यात्, न तु सान्तरोऽसम्बद्धो मया गृहीत इति) सान्तरप्रत्ययस्याप्राप्तिनिबन्धनत्वात् / अस्ति चैवं प्रत्ययः ततोऽप्राप्तस्यैव ग्रहणं मन्तव्यमिति / समाधत्ते नान्यथा इति / स्पर्शनगृहीतेऽप्यर्थे संयोगस्य द्विष्ठत्वात् त्वगिन्द्रियस्य चातीन्द्रियत्वात् न तत्रापीन्द्रियसंयोगजनितो निरन्तर प्रत्ययः, किन्तु देहसम्बन्धजनित इति तस्यैव तत्र कारणत्वम्, देहसंयोगाभावस्य तु सान्तरप्रत्यये कारणत्वमिति / . // न्यायकन्दली पञ्जिका // न भूतस्वभावानीन्द्रियाणीत्यादिना / केचिदिति-बौद्धजैनसांख्याः / योग्यताभावादितियोग्यतायाः अभावादित्यर्थः / नन्वभावः कथं कारणं भवतीत्याह-संयोगाभाव इव पतनकर्मणीति सत्यपि हि गुरुत्वे पतनहेतौ यावत्संयोगस्तावत्पतनं न भवति / यथा वृन्तसंयोगे बीजपूरस्य, संयोगाभावे पतनम् / इतीति अस्माद्धेतोः / प्रतीतेरिति-अर्थज्ञानस्य / कारणाभावादितिआवरणाभावस्य कारणस्याभावात् / आवरणस्य स्पर्शवद्रव्यप्राप्तिप्रतिषेधार्थत्वेनोपलब्धेरिति प्राप्तिशब्देन संयोगः / इदमत्रावेदितं भवति-न च स्पर्शवन्तीन्द्रियाणि भवन्मतेऽभौतिकत्वात् / तत आवरणेन तेषामप्रतिघाताद् व्यवहितार्थोपलब्धिः स्यात् / परवाक्यं नन्वेवं तीत्यादि / श्रीधरः प्राह रश्म्यर्थसन्निकर्षादिति रश्मीनां नयनानामर्थेन विषयेण सह नैकट्यात् / दूरे गत्वा सन्तमर्थं