________________ 172 सन्दर्भग्रन्थाः गृह्णन्तीति योग: / ननु भौतिकं यावत्परिमाणं तावत्येवार्थक्रियां..दृष्टम्, यथा कुठारादिकं वटवृक्षादौ / इन्द्रियं तु स्वपरिमाणाधिकमपि वस्तु प्रकाशयति तथा स्वपरिमाणादण्वपि प्रकाशयति तत्कथं तस्य भौक्तिकत्वं युक्तम्, अभौतिकत्वमेव हि प्राप्तमित्याशंक्याह-अत एव महदणुप्रकाशकत्वादिन्द्रियस्याभौतिकत्त्वं न सिद्धयतीति / परवाक्यं यद्गच्छतीत्यादि / प्राप्तिपक्षे इति-नायन रश्मीनां पदार्थसन्निकर्षे कक्षीयक्रियमाणे इत्यर्थः / सान्तरालयोऽयमिति ग्रहणं न स्यादितिविप्रकृष्टोऽयमिति ग्रहणं न स्यात् / नायनरश्मयो हि यदि तत्र गत्वाऽर्थं गृह्णन्ति तदा किं दूरं किं वा आसन्नमिति भावः / श्रीधरः प्राह नान्यथा तदुपपत्तेरित्यादि / न तद्भावाभावकृतौ सान्तरनिरन्तरप्रत्ययावितिनेन्द्रियसम्बन्धभावाभावकृतौ सान्तरनिरन्तरप्रत्ययौ इत्यर्थः / अत्र चेन्द्रियसम्बन्धभावकृतो निरन्तरप्रत्ययः / इन्द्रियसम्बन्धाभावकृतस्तु सान्तरप्रत्यय इति द्रष्टव्यम् / ननु यथासंख्यमनुसार्यं शास्त्रशैल्या यथासंख्यमर्यादाया इह निर्वाहात् / // न्यायकन्दली कुसुमोदगमोदयव्याख्या // न भूतेति / तदयुक्तमिति तदप्राप्यकारित्वं प्रमाणबाधितमित्यर्थः / शङ्कते-योग्यतेति / अयमभिसन्धि:योग्यता हि तादृशइन्द्रियक्षणपरिणाम (:) अर्थक्षणश्च, तयोरप्राप्तयोरेव ग्रहणग्राह्यभावः / व्यवहितविप्रकृष्टाश्च न तादृशा इति तत्किमप्रतीयमानप्राप्तिकल्पनयेति / तत्र प्रतिक्षणपरिणामस्याग्रे निराकरिष्यमाणत्वात् तदतिरिक्तयोग्यता स्वरूपलक्षणा सहकारिलक्षणा वा स्यात् / तदुभयं व्यवहितविप्रकृष्टयोरप्यविशिष्टं प्राप्तिरूपसहकारिवैकल्यमेव केवलमवशिष्यते इत्याह इन्द्रियस्येति / अयं प्रयोगः चक्षुरावरणं प्राप्तिप्रतिबन्धकतया आव्रियमाणकार्य विरुणद्धि आवरणत्वादश्रुवत् / तथा च सतीति व्यवहितयोरिन्द्रियार्थयोः प्राप्तिव्यतिरिक्तयोग्यत्ये कार्याभावे च सति अनुमानं सुलभमन्यथासिद्धिस्वरूपासिद्धिशङ्काया अनवकाशत्वादित्यर्थः / व्यवहिताप्रकाशत्वा• दित्यत्र सर्वथाऽप्रकाशकैर्व्यभिचा-रपरिहाराय प्रकाशकत्वे सतीति विशेषणीयो हेतुः / प्रकाशोपेतपदार्थमाला ___ [अत्र] केचित्-चक्षुः न प्राप्यकारि, अधिष्ठानासम्बद्धार्थग्राहकत्वात् / यत् प्राप्यकारि तत् नाधिष्ठानासम्बद्धार्थग्राहम् / यथा रसनादिः / प्राप्यकारित्वे पृथुतरग्रहणानुपपत्तेश्च / न हि स्वल्पस्य चक्षुषः पृथुतरप्राप्तिसंभव; किं च शाखाचन्द्रमसोयुगपत् ग्रहणं न स्यात् / न च वेगातिशयात् समाधि परापरमाण्ववयवान्तं गतिमन्तरेणावयविनो गमनाभावात् / तेषां च भूयोऽवच्छेदेन संयोगाभावात्; अत्यतिशयवेगवतोऽपि सन्निकृष्टदेशसंयोगादिकं विना विप्रकृष्टदेशगमनासम्भवाच्च / अपि चैवं काचस्फटिकाद्यन्तरितोपलब्धिः न स्यात् / तथात्वे भित्त्याद्यन्तरितोपलब्ध्यापत्तेः / तस्मादप्राप्यकारि चक्षुः, ततो न तैजसम् / किं तु गोलकमेव विशिष्टादृष्टोगृहीतं, तेन प्रसन्नान्धव्यावृत्तिरित्याहुः /