________________ 170 सन्दर्भग्रन्थाः // न्यायकन्दली // ___इन्द्रियप्रकृतित्वमिन्द्रियस्वभावत्वं न भूतस्वभावानीन्द्रियाणि अप्राप्यकारित्वात् प्राप्यकारित्वं हि भौतिको धर्मो यथा प्रदीपस्येति केचित् / तदयुक्तम् / व्यवहितानुपलब्धेः यदीन्द्रियमप्राप्यकारि कुड्यादिव्यवहितमप्यर्थं गृह्णीयादप्राप्तेरविशेषात् / योग्यताभावाद्व्यवहितार्थाग्रहणमिति चेत् इन्द्रियस्य तावद्योग्यता विषयग्रहणसामर्थ्यमस्त्येव तदानीमव्यवहितार्थग्रहणात् विषयस्यापि योग्यता महत्त्वानेकद्रव्यवत्त्वरूपविशेषाद्यात्मिका व्यवधानेपि न निवृत्तैव आर्जवावस्थानमपि तदवस्थमेव / अथ मतं आवरणाभावोऽप्यर्थप्रतीतिकारणं संयोगाभाव इव पतनकर्मणि आवरणे सत्यावरणाभावो निवृत्त इति प्रतीतेरनुत्पत्तिः कारणाभावादिति / नैतत्सारम् / आवरणस्य स्पर्शवद्रव्यप्राप्तिप्रतिषेधभावोपलब्धेः छत्रादिकं हि पततो जलस्य सावित्रस्य च तेजसः प्रतिषेधति न तु स्वस्याभावमात्रं निवर्तयति तथा सति सुलभमेतदनुमानं प्राप्तप्रकाशकं चक्षुर्व्यवहितार्थाप्रकाशकत्वात् प्रदीपवत् बाह्येन्द्रियत्वात् त्वगिन्द्रियवत् / नन्वेवं तर्हि विप्रकृष्टार्थग्रहणं कुतः रश्म्यर्थसन्निकर्षात् अनुद्भूतरूपस्पर्शा नायना रश्मयो दूरे गत्वा सन्तमर्थं गृह्णन्ति / अत एव महदणुप्रकाशकत्वात् किमिन्द्रियस्य भौतिकत्वं न सिद्ध्यति प्रदीपस्येव रश्मिद्वारेण तदुपपत्तेः यत्र च रश्मयो भूयोभिः स्वावयवैः सहावयविना तदवयवैश्च सह सम्बद्ध्यन्ते / तत्राशेषविशेषास्कन्दितस्यार्थस्य ग्रहणात् स्पष्टं ग्रहणं यत्र त्ववयवमात्रेण सम्बन्धस्तत्र सामान्यमात्रविशिष्टस्य धर्मिणो ग्रहणादस्पष्टं ग्रहणम् / यद् गच्छति तत्सन्निहितव्यवहितार्थो क्रमेण प्राप्नोति तत्कथं शाखाचन्द्रमसोस्तुल्यकालोपलब्धिरिति चेत् इन्द्रियवृत्तेराशुसञ्चारित्वात् पलाशशतव्यतिभेदवत् क्रमाग्रहणनिमित्तोयं भ्रमो न तु वास्तवं यौगपद्यम् / ननु प्राप्तिपक्षे सान्तरालोयमिति ग्रहणं न स्यात् नान्यथा तदुपपत्तेः इन्द्रियसम्बन्धस्यातीन्द्रियत्वान्न तद्भावाभावकृतौ सान्तरनिरन्तरप्रत्ययौ किं तु शरीरसम्बन्धभावाभावकृतौ यत्र शरीरसम्बद्धस्यार्थस्य ग्रहणं तत्र निरन्तरोयमितिप्रत्ययः यत्र तु तदसम्बद्धस्य ग्रहणं तत्र सान्तर इति / // न्यायकन्दलीटीप्पणम् // अभूतस्वभावानि इति-अन्वये मनोवत् / विषयस्यापि योग्यता इति नन्वाकाशे महत्त्वमस्ति परं रूपविशेषो नास्ति, द्वयणुके तु रूपविशेष उद्भूतं रूपमस्ति परं महत्त्वं नास्तीत्यचाक्षुषत्वे द्वयोरप्युद्भूतरूपमहत्त्वयोर्दर्शनं प्रति कारणत्ववचनं युक्तम्, महत्त्वाद्यनेकद्रव्यत्वयोरप्युपादानमनर्थकम्, उद्भूतरूपस्य महतोऽनेकद्रव्यत्वाव्यभिचारेण व्यवच्छेद्याभावात् / सत्यम्, द्वयोरपि दर्शनं प्रति कारणत्वख्यापनार्थमथवा द्वयोरपि तुल्यव्याप्यव्यापकताप्रदर्शनार्थं द्वयोरुपादानम् / ननु द्वयोस्तुल्यव्यापकत्वमसिद्धमिति उद्भूत रूपस्यानेकद्रव्यवतो व्यणुकस्य महत्त्वरहितत्त्वात् ? नैवम्, न विद्यते एकं द्रव्यमाश्रयतया यस्य (तदनेकम्, अनेकं द्रव्यमाश्रयतया) विद्यते यस्य तदनेकद्रव्यवत्,