________________ विभाग-५ 169 __ पृष्ठभागेति-तस्मादनुद्भूतरूपचक्षुषोद्भुतरूपालोकेन सह विरुद्धरुयोत्पादविरोधादारम्भ एव नास्ति आरम्भेऽपि वा अवयवस्येवेन्द्रियत्वं न च तदवयविनः / अतएव यत्रेतत्स्थितः (? इतस्ततः स्थित) प्रेक्षकाणां परस्पर नयने रम्भ विरोधः / तत्रापि पृष्ठदेश व्यवहितार्थोपलम्भापत्त्या आरम्भ एव नास्ति अवयवस्येवेन्द्रियत्वमित्येव वाच्यमितिभावः / तस्मिन् सति इतिः-ननु यत्र क्वचित् कुड्यादिसत्वं न प्रतिबन्धकं किन्तु ग्राह्यग्राहक मध्यवति तथा / नचैवमपि कुड्यादौ मध्यवर्तिनी पर्वतादि ग्रहणं न स्यादितिवाच्यं / ग्राह्याधिक परिमाणस्य तन्मध्यवर्तिनः कुड्यादेः / प्रतिबन्धकत्वात् / अथवा त्वन्मते यादृशेन्द्रियसंबन्धविच्छेदकत्वं तादृशस्य स्वरूप एवाभावः कारणमित्यभ्युपगमात् न चैवं गोलकस्येवरूपग्राहकत्वे प्रसन्नान्धस्यापि रूपग्रहप्रसङ्ग श्रोत्रवददृष्टविशेषोपग्रहेणैव गोलकस्य ग्राहकत्वात् / यदाहुः - विशिष्टादृष्ट वैचित्र्यात् कुष्णसारं विलोचनं / व्यवधानाद्यभावश्च स्वस्पेणैव युज्यते // इति / मैवं पूर्वोक्त तेजसत्वानुमानेनैव चक्षुषः प्राप्यकारित्वसिद्धेः / तथोत्पादादाह योग्यत्वमितिअतिशयेति-कुर्वदरुपं उतक्षणोत्पादोतिशयः सहाकारिप्रत्यया इति-सहारिकारणमित्यर्थः निरन्तरोत्पादेनेति-भावानतिशाययन्तीत्यनेनान्वयः क्वचिद् प्रथमा एव पाठः सतु स्पष्टमेव / // पदार्थदीपिका // ननु चक्षुषो गोलकविशेषरूपस्य घटदिसंयोगः प्रत्यक्षबाधितः कथमासत्तिरिति चेन्न / तत्तद् गोलकाधिष्ठितानामिन्द्रियाणामतीन्द्रियाणामप्युपगमात् गोलकादिरूपवत्त्वे चाऽसम्बद्धग्राहकत्वमभ्युपेयम् / तथा च पृष्ठभागीयाः पुरोवतिनो भित्यादिव्यवहिताश्च पदार्था गृह्येरन् / व्यवधानं प्रतिबन्धकमिति चेन्न / भित्यादिपरभागस्थितानां परावृत्य दर्शने पृष्ठदेशे स्वस्य च प्रत्यक्षं न स्यात् / तत्पुरुषीयतत्कालीनप्रत्यक्षं प्रत्येव तत्कालप्रतिबन्धकत्वकल्पने चातिगौरवात् / तस्मादावश्यकमतीन्द्रियमिन्द्रियम् / नन्वेवं शाखाचन्द्रमसोस्तुल्यकालग्रहणं न स्यात् / किं च नेत्रोन्मीलने प्रहराद्यवधिसूर्यचन्द्रग्रहणार्थे विलम्बापत्तिः / चक्षुषस्तावत् दूरगमनकल्पनात् इति चेन्न / अतिलाघवादतिशीघ्रं तावत् दूरगमनाद्विशेषाऽग्रहणस्याशु तदुत्पादकप्रतीतेश्चोपपत्तेः / तदुक्तम् / अचिन्त्यो हि तेजसो लाघवातिशयेन वेगातिशयो यत्प्राचीनाचलचूडावलम्बिन्येव भगवति मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लौकिकानामिति दिक् / (किरणावली)