________________ 168 सन्दर्भग्रन्थाः अप्राप्यकारित्वेऽपि विरोधिनः कुड्यादेः सत्त्वान्न व्यवहितोपलम्भ इत्यत आह-न हि व्यवधायकमिति / न हि कुड्यां स्वरूपेण ज्ञानपरिपन्थि, अव्यवहितेऽपि ज्ञानानुदयप्रसङ्गात् / नापि ज्ञानजनकचक्षुःसंयोगविरोधितया प्राप्यकारितापत्तेरिति भावः / यो हि इन्द्रियविषययोः स्वरूपयोग्यतैवो पलब्धिप्रयोजिका तद्विरहादेव व्यवहितानुपलम्भो, न तु प्राप्तिविरहादित्याह, स किं कुड्यादिव्यवधानकालीनयोर्विषयेन्द्रिययोर्यावदव्यवधानं स्थिति मनुते, किं वा योग्ययोरन्ययोरेवाव्यवधानदशायामुत्पत्तिम् ? प्रथमे दोषमाह स्थैर्य इति / तदानीमपीति / व्यवधानेऽपीत्यर्थः / "अपरावृत्तेरि''त्यत्रोपलम्भापत्तिरि"ति शेषः / द्वितीयं दूषयति-क्षणिकत्व इति / बौद्धमते हि अयोग्यावेवेन्द्रियविषयौ योग्ययोरेवेन्द्रियविषययोरन्योन्यसहितौ जनकौ, तद् यदि प्राप्तिनिरपेक्षयोरयोग्येन्द्रियविषययोर्योग्येन्द्रियविषयजनकत्वं, तदा कुड्यव्यवधानेऽपि योग्येन्द्रियविषययोरुदयाद् व्यवहितोपलम्भापत्तिः, प्राप्तिसापेक्षयोरयोग्ययोर्योग्यजनकत्वेऽयोग्यजनकत्वे वापि उपलम्भोपयोगिनी प्राप्तिरिति सिद्धमिति भावः / ननु प्राप्तिः साध्यमाना गोलकस्य साध्यते, तद्व्यतिरिक्तस्य वा? आये, बाधः; द्वितीये तु आश्रयासिद्धिरत आह-न च कृष्णेति / रूपोपलब्धिकरणे प्राप्यकारित्वं साध्यते, तच्च सिद्ध्यमानमन्त वितगोलकातिरेकमेव सिद्ध्यति, गोलके बाधात् / ननु निरन्तरोत्पादादेव प्राप्तिव्यवहारे घटमाने संयोगलक्षणप्राप्तिर्दुर्लभेति अत आह-तदेतदिति / // द्रव्यकिरणावली दिवाकर विरचिता टीका // .. अप्राप्यकारीतिविषयाप्राप्तमेव तद्ग्राहकमित्यर्थ / ननु गोलकस्य पक्षत्वे सिद्धसाधनं तदतिरिक्तस्याश्रयासिद्धिः / सिद्धौ वा तद्ग्राहकमानबाध इति चेत् / न गोलकं पक्षीकृत्य स्वासम्बन्धविषयग्राहीत्वस्य साध्यत्वात् / न च सिद्धसाधनं गोलकेन समं चक्षुस्तेजोघटितसंयुक्त संयोगस्य घटदिग्राहकत्वेन त्वयाङ्गीकारात् घटसाक्षात्कार कारणतेज:संयोगसमानाधिकरणघट साक्षात्कारकारणतेजःसंयोगवत्त्वं वा तस्य निषेध्यं / यद्वा शरिरासंयुक्तघटसाक्षात्कारः (पक्ष) घटसंयुक्तेन्द्रियाजन्यः (साध्य) शरीरासंयुक्तघटज्ञानत्वात् तदनुमितिवदिति। अनेकान्तिकत्वादिति विरुद्धत्वात् इत्यर्थः यद्यपि स्वाधिकपरिमाणघटादिग्राहकत्वं त्वगेन्द्रियेण प्राप्यकारिण्यपि विद्यते तथापि गत्यन्तरमाह पृथुतरेति / यद्यपि शाखाचन्द्रमसंयोगसमानकालीनेन्द्रियसंयोगवत्वेन तुल्यकालमुपलम्भ सम्भवत्येव तथापीन्द्रियस्य प्राप्यकारित्वेन शाखां गृहित्वा पश्चाच्चन्द्रमसंयोगसमानकालीनेन्द्रिये गृह्णातीत्यत आह तुल्यकालेति / शाखाग्रहणपुरःसरमेवतद्ग्रहणं तुल्यकालत्वेन आरोपस्तु तयोरित्यर्थः /