________________ विभाग-५ 167 व्यभिचारिव्यतिरेकिणएव विरूद्धपदेन ग्रहणात्, भवति चायं व्यतिरेकीयत्रयत्र प्राप्यकारित्वं तत्रतत्राधिष्ठानसम्बद्धार्थ, ग्राहित्वं, यथा घ्राणेन्द्रिय इति, व्यतिरेकव्याप्तिसम्भवात्, व्यभिचारस्यमूल एवोक्तत्वादिति भावः / सजातीयेति, यद्यपि अभावे जाति स्ति, तथापि धमोऽस्त्येवेति भावः / तथोत्पादः = कार्यप्रति कुर्वद्पत्वेनोत्पादः / निरन्तरोत्पादेनेति, कर्तृत्वस्यक्रियापेक्षायामाह अनुषज्यते इति / // द्रव्यकिरणावली टीका // "अप्राप्यकारिचक्षुरधिष्ठानासंबन्धार्थग्राहित्वादि"त्यत्र मनसः सपक्षस्य सत्त्वात् कथं व्यतिरेकितेति चेत्, न / संस्कारलक्षणप्रत्यासत्तिसापेक्षतया मनसोऽपि प्राप्यकारित्वात् / तदाहकुसुमाञ्जलौ "संस्कारस्तु प्रत्यासत्तिमात्रेणोपयुज्यत" इति / प्राप्तिनिरपेक्षसाक्षात्कारसाधनंत्वं वा अप्राप्यकारित्वं, न चैतन्मनसः संभवति, स्मृतेरसाक्षात्कारित्वात् सुखादिसाक्षात्कारे तु मनसः प्राप्तिसापेक्षत्वात् / बाह्यार्थसाक्षात्कारे च मनसोऽसाधनत्वादिति / अस्यामेव प्रतिज्ञायां स्वतो. ऽधिकपरिमाणाग्राहकत्वात्, सन्निहितदूरस्थितयोस्तुल्यकालमुपलम्भकत्वात् स्फटिकादिव्यवहितोपलम्भकत्वादिति व्यतिरेकित्रयं क्रमेण आह-पृथुतरेत्यादिना / यद् वा, चक्षुर्न प्रा(प्य ?)बोधकं तद्विरहेऽपि तद्बोधकत्वादिति एव मुख्यो हेतुः / तत्साधकाः पुनः प्रकृतहेतव इति / न च स्वतोऽधिकपरिमाणग्राहकत्वं पर्वतादिग्राहिणि त्वगिन्द्रिये प्राप्यकारिणे अस्तीति विरुद्धमिति वाच्यं, त्वगिन्द्रियस्य यावत्सन्निकृष्टपर्वतभागमात्रग्राहित्वेन पूर्वपक्षिणोऽभिप्रेतत्वात् / पृथुतरग्राहित्वस्य अनुकूल-(तर्क ?)माह-यदि चेति / समग्रो हि पद्धतादिरुपलभ्यते, न चाल्पपरिमाणस्य चक्षुषः समग्रपतसंयोगः संभवी, न हि नखरञ्जिका परशुरिव शाखाव्यापिनं संयोगमनुभवति समस्तशाखाच्छेदप्रसङ्गात् / अधिष्ठानासंबद्धार्थेति / गोलक इव चक्षुषस्तैलपात्रं प्रदीपस्याधिष्ठानं तेनासंबद्धं घटादि प्रदीपो गृह्णाति प्राप्यकारी चेति व्यभिचारः / न च व्यतिरेकिणि विरोध एवोद्भाव्यो न व्यभिचार इति वाच्यम्, अधिष्ठानासंबद्धार्थग्राहित्वस्य प्राप्यकारित्वेऽपि बाधाभावे नाप्राप्य. कारित्वनियमानिश्चयात् / तेन प्राप्यकारिणि विपक्षे सद्भावमात्रेण अनैकान्तिकत्वमुक्तमिति / ननु यदि गत्वा चक्षुश्चन्द्रमसं गृह्णीयात् तर्हि मासादिव्यवधानेन परिच्छिन्द्यात्, अनेकलक्षयोजनान्तरितत्वादिति कथं कालसन्निकर्षेणापि शाखाचन्द्रोपलम्भयौगपद्याभिमान इति अत आह-अचिन्त्यो हीति / 'लाघवं' गुरुत्वाभावः, 'तस्यातिशयः' उपष्टम्भकादिगतगुरुत्वाभावः ‘संसर्गि( द्रव्य ? )तयेत्यन्योन्यमिश्रीभावयोग्यद्रव्यतयेत्यर्थः / ननु नायनरश्मेरपीन्द्रियत्वे गत्वा पृष्ठदेशव्यवस्थितार्थोपलम्भप्रसङ्गस्तुल्य इत्यत आहेन्द्रियप्राप्तयेत्विति / नायनं तेजः पुरतः स्थितेन संबद्ध्यते, न पृष्ठस्थितेन, शरीरेण प्रतिबन्धादिति भावः / “येषां त्वि"त्यादिना अप्राप्यकारित्वे व्यवहितप्रकाशकत्वप्रसङ्ग इति वदता व्यवहिताप्रकाशकत्वात् प्रसङ्गविपर्य्ययात् प्राप्यकारित्वं चक्षुषोऽनुमेयमिति दर्शितम् / ननु