________________ 166 सन्दर्भग्रन्थाः समानाधिकरणघटसाक्षात्कारणतेजःसंयोगवत्त्वस्य निषेध्यत्वात् / अनैकान्तिकत्वाविरुद्धत्वादित्यर्थः / पृथुतरग्रहणस्य साधिकपरिमाणद्रव्यग्राहिणात्वगिन्द्रियेणानैकान्तिकत्वं सत्येव समाधानान्तरमाह / पृथुतरेति / यत्काले चन्द्रमसा संयुक्तं चक्षुस्तत्काले शाखयापीति तुल्यकालग्रहोपपत्तिः / न चाग्रावच्छेदेनैव चक्षुःसंयोगो ग्राहकोऽन्यथा मूलावच्छेदेन गोलकस्य नित्यसम्बन्धात् तद्ग्रहापत्तिरिति वाच्यम् / तिर्यग्भावेन शाखाचन्द्रमसोरगावच्छेदेन चक्षुःसंयोगाविरोधादिति समाधाने सत्येवाह / तुल्यकालेति / शाखाग्रहणानन्तरमेव चन्द्रग्रहणम् / तयोस्तुल्यकालत्वधीभ्रंम इत्यर्थः / ___ लाघवातिशयेनेति / सजातीयसम्बलनमेवातिशयः / गुरुत्वाभावात्मके लाघवे जात्यात्मकप्रकर्षाभावात् / एतदेव दृष्टान्तेन द्रढयति / यत्प्राचीनेति / शालीकमतं दूषयितुमुपन्यस्यति / केचित्त्विति / पृष्ठभागेति / वस्तुतोऽनुद्भूतरूपेण चक्षुषा उद्भूतरूपेणालोकेन सहारम्भे विरोधः / आरम्भेऽपि वावयवस्येन्द्रियत्वं स्यात् / न चावयविनः कायॆकोनेयत्वात् तस्य / एतेनेतस्ततः स्थितैः प्रेक्षकाणां परस्परनयनै रम्भविरोधः / तेषामनुद्भूतरूपत्वादित्यपास्तम् / नन्विन्द्रियमेव पृष्ठदेशे व्यवहितेन कुतो न सम्बध्यते इत्यत आह। इन्द्रियप्राप्तय इति। तस्मिन् सतीति। ननु यत्र क्वचित् कुड्यादि न प्रतिबन्धकं किन्तु ग्राह्यग्राहकमध्यवर्ति / न चाल्पपरिमाणेन तादृशेन महापरिमाणद्रव्याग्रहापत्तिः / ग्राह्याधिकपरिमाणस्य तन्मध्यवर्तिनः कुड्यादेः प्रतिबन्धक-त्वात्। न चैवं गोलकस्यैव रूपग्राहकत्वे प्रसन्नान्धस्यापि रूपग्रहणप्रसङ्गः, श्रोत्रवददृष्ट-विशेषोपग्रहेणैव गोलकस्य ग्राहकत्वात् / मैवम् / पूर्वोक्ततैजसानुमानेनैव चक्षुषः प्राप्यकारित्वसिद्धेः / न चैवमुन्मील्य निमीलितनयनस्यापि साक्षात्कारापत्तिः गोलकसन्निकृष्टेन्द्रियस्य विषयसंयोगे सति ज्ञानजनकत्वोपगमात् / 'क्षणभङ्गपक्षे तथोत्पादमभ्युपेत्याहयोग्यमिति / कुर्वपविशिष्ट-क्षणोत्पादो ऽतिशयः', 'सहकारिप्रत्ययाः' सहकारिकारणानि / निरन्तरोत्पादेनेत्यत्र भावानति-शाययन्ति इत्यनुषज्यते / क्वचिन्निरन्तरोत्पादः। 'संयोगे वेती'ति पाठः सुगम एव / तदेतदिति / क्षणभङ्गनिराकरणेन कथमेतदिति तेजस्त्वाविशेषे चक्षुरेव रूपव्यञ्जकं न 'तूष्मादी'ति कुतो नियम इत्यर्थः / वर्धमानेन्दुः (किरणावलीप्रकाश टीका) अनुपजीवकत्वात् = प्राप्यकारित्वासाधनत्वात् / तस्य = प्राप्यकारित्वस्य / सिद्धसाधनमिति, गोलकघटाद्योः साक्षात्सम्बन्धाभावादित्यर्थः / घटेति घटसाक्षात्कार कारणं तेजःसंयोगश्च चक्षुर्घटसंयोगःतेन समानाधिकरणो यः संयोगः चक्षुर्गोर्लकसंयोगः तद्वत्वस्य निषेध्यत्वादित्यर्थः / विरूद्धत्वादिति, ननु अधिष्ठानासम्बद्धरूपादिग्राहित्वस्य रूपाद्यप्राप्यकारित्वस्य च मनसि विद्यमानत्वात् कथं विरूद्धत्वं ? साध्यासहचरितहेतोरेव विरूद्धत्वादिति चेत्, न,