________________ विभाग-५ // किरणावली // इह केचिदाहुः / अप्राप्यकारि चक्षुरधिष्ठानासम्बद्धार्थग्राहित्वात् / यत् पुनः प्राप्यकारि न तदधिष्ठानासम्बद्धार्थग्राहि / यथा रसनादि / पृथुतरग्रहणाच्च / यदि प्राप्यकारि चक्षुः स्यात् स्वतो. ऽधिकपरिमाणं न गृह्णीयात् / न खलु नखरञ्जनिका परशुच्छेद्यं छिनत्ति / शाखाचन्द्रमसोस्तुल्यकालग्रहणाच्च / यदि हि गत्वा गृह्णीयात् निकटस्थमाशु गृह्णीयात् / दवीयस्तु चिरेणेति न तुल्यकालमुपलम्भयेत् / अनुभवति तून्मीलयन्नेव नयने शाखां शीतमयूखञ्चेति / काचाभ्रदलस्फटिकाद्यन्तरितोपलब्धेश्च / यदि हि प्राप्तं गृह्णीयात् प्रतिघातिनां स्फटिकादिद्रव्येण विष्टम्भादप्राप्त प्रसर्पत् तृणादिकं नाददीत / तस्मादप्राप्यकारि / ततो न तैजसमिति / तदसत् / अधिष्ठानसम्बद्धार्थग्राहित्वस्य प्रदीपेनानैकान्तिकत्वात् / पृथुतरग्रहणस्यापि पृथ्वग्रतया तद्वदेवोपपत्तेः / तुल्यकालग्रहणन्त्वसिद्धमेव। तदभिमानस्य कालसन्निकर्षेणोपपत्तेः / अचिन्त्योहि तेजसो लाघवातिशयेन वेगातिशयो यत्प्राचीनाचलचूडावलम्बिन्येव मयूखमालिनि भवनोदरेष्वालोक इत्यभिमानो लौकिकानाम् / केचित्तु संसर्गिद्रव्यतया निःसरदेव नायनं तेजो बाह्यालोकेनैकतां गतं युगपदेव तावदर्थेन संसृष्टमिन्द्रियमुत्पादितवदिति शाखाचन्द्रमसोस्तुल्यकालग्रहणमुपपद्यत इति समाधानमाहुः / तदसत् / पृष्ठभागव्यवहितार्थोपलम्भप्रसङ्गात् / इन्द्रियप्राप्तये ह्यार्जवावस्थानमप्युपयुज्यत इति स्फटिकाद्यन्तरितोपलब्धिरपि प्रसादस्वभावतया स्फटिकादीनां तेजस्ततेरप्रतिबन्धकत्वात् / प्रदीपप्रभावदेवोपपत्तेरिति / येषान्त्वप्राप्यकारि चक्षुः तेषामप्राप्तत्वाविशेषादव्यवहितमिव कुड्यादिव्यवहितमपि किं न गृह्णाति / नहि व्यवधायकं प्राप्तिविघातादन्यत्र सत्तयैव कार्यविरोधि, तथात्वे तस्मिन् सति न क्वचित् कार्यं भवेत् / योग्यं योग्येन गृह्यते, तत्त्वयोग्यत्वान्न गृह्यते, न तु व्यवहितत्वादित्यपि वार्त, स्थैर्य स्वरूपयोग्यतायास्तदानीमप्यपरावृत्तेः / क्षणिकत्वेऽपि प्रत्यासीदतां सहकारिणामतिशयजनकत्वात् / न ह्यप्रत्यासीदन्तः सहकारिप्रत्ययाः समासहस्रेणापि भावानतिशाययन्ति / प्रत्यासत्तिश्च बौद्धनये निरन्तरोत्पादः / अस्माकं च द्रव्ययोः संयोग एव स्यात् / न च कृष्णसारस्यार्थेन निरन्तरोत्पादः / नापि संयोगः / ततस्तदाश्रयस्यातीन्द्रियस्य गतिक्रमेण निरन्तरोत्पादेन वा संयोगेन वेत्यवशिष्यते / तदेतदने निरूपयिष्यत इति एषा दिक् / // किरणावली प्रकाशः // अप्राप्यकारीति / ननु गोलकस्य पक्षत्वेऽपि सिद्धसाधनं तदन्यस्य पक्षत्वे चाश्रयासिद्धिः / सिद्धौ वा धम्मिग्राहकमानबाधः / अत्राहुः / तदन्यस्यैव पक्षत्वे न बाधः / धम्मिग्राहकमानस्य प्राप्यकारित्वानुपजीवकत्वात् / तस्य व्यवहितानुपलब्धिगम्यत्वात् / यद्वा गोलकमेव पक्षः स्वासम्बन्धविषयग्राहकत्वञ्च साध्यम् / न च सिद्धसाधनम् / घटसाक्षात्कारकारणतेजःसंयोग