________________ 164 . सन्दर्भग्रन्थाः // न्यायलीलावतीप्रकाशविवृत्तिः // __प्रसन्नान्धोऽभग्नगोलकोऽन्ध इत्यर्थः श्रोत्रतदधिष्ठानरभेदा(दा?)ह-अधिष्ठानादिति / विषयसम्बद्धेति / अन्याप्रतिरुद्धस्यभावत्वादित्यर्थः / वेगेति / अन्यथा वातनिर्वातयोः काण्डस्य तुल्यतापत्तेरिति भावः। सन्निधानवदिति / देशस्वरूपभेदात्मकयोग्यताया नियामकत्वे आवृतस्यापि ग्रहणापत्तिरिति मूलोक्तमुपलक्षणम् / दूरस्थकेशस्यापि ग्रहणापत्तिः पर्वतसाक्षात्कारानुरोधेन तद्देशस्य योग्यत्वा-दित्यर्थः / अष्टापत्तिमाशङ्कयाह-दूरेति / स चात्र नास्त्येवेति नेष्टापत्तिरिति भावः / इति पूर्वोत्तरफक्किकयोर्व्याख्यानमयुक्तं देशस्य योग्यत्वेऽपि महत्त्वविशेषरूपसहकारिविरहादेव दूरस्थ केशानुपलम्भोपपत्तेस्तस्य देशयोग्यतायामबाधकत्वात् / तस्मादेवं व्याख्या / ननु यथेन्द्रियसन्निकर्षनियामकत्वपक्षे तवेन्द्रियसम्बद्धस्यापि व्यवहितकेशस्याग्रहस्तथा देशस्वभावस्यापि नियामकत्वे मम कुतश्चिन्निमित्तांदावृताग्रह: स्यादित्याशङ्कायामाह-सन्निधानवदिति / तथा च महत्त्वविशेषकारणाभावाद्दूरे केशाग्रहं उपपद्यते न त्वावृताग्रहः, इन्द्रियसन्निकर्षस्यानियामकत्वे ग्रहकारणवैकल्याभावादिति / ग्राह्याधिकेति। अन्यूनेत्यर्थः / समानपरिमाणस्यापि प्रतिबन्धकत्वात् / यद्यप्युपरिस्थेन न्यूनपरिमाणेनापि पर्वतादिग्रहप्रतिबन्धादधिकपरिमाणेनापि किञ्चिदूरस्थवस्तूपलम्भाप्रतिबन्धाच्चेदमयुक्तं तथापि प्राप्यकारितापक्षेऽपि किञ्चित् क्वचिन्नयनगतिप्रतिबन्धकमुपेयम् / तथा च यादृशमेव नयनप्रतिबन्धकं तादृशमेवोपलम्भप्रतिबन्धकमिति भावः / न च गोलकेति / यद्यप्यतिरिक्ततेजसः प्रागेव साधनाद्विकल्प्पोऽयमसङ्गतः, तथापि गोलकमात्रावच्छिन्नं तेजः पक्षो घटदिसम्बद्धं वेति विकल्पार्थो बोध्यः / नन्वावृतत्वमित्यत्रावृताप्रकाशकत्वमित्यर्थस्तेनाधिष्ठानासम्बद्धार्थग्राहकत्वमित्यनेन सामानाधिकरण्यं घटते। 'असिद्धि'रन्यतरासिद्धिः / प्रकृते तेजोगतेरन्यतरासिद्धत्वात् / तैजसत्वविशेषणासिद्धिपरिहारायाह-पूर्वमिति / तथा चाधिष्ठानासम्बद्धार्थग्राहकत्वमेव तदितिभावः। शरीरे च न व्यभिचार इत्याह-तैजसत्वेनेति / तथा च प्रकाशकपदं तैजसपरमिति अधिष्ठानासम्बद्धार्थग्राहकतेजस्त्वादिति हेतुरिति भावः / अन्त्यावयवीति / शरीरतदवयवभिन्नेत्यर्थः / अन्यथा तद्गोलके व्यभिचारतादवस्थ्यात् / एवं च सति घ्राणे व्यभिचारवारणाय तैजसपदमिति भावः / न चैवमधिष्ठानासम्बद्धेति व्यर्थं स्वप्रकाशके शरीरतदवयवभिन्ने सुवर्णादौ स्वसंयुक्तार्थग्राहकत्वलक्षणप्राप्यकारित्वसाध्याभावेन व्यभिचारात् / केचित्तूक्तानुमानस्य चक्षुः कर्मसंयुक्तं सत् ज्ञानकारणं साक्षात्कारसाधारणकारणतेजस्त्वादालोक-वदिति तात्पर्यम् / तेजःपदं च श्रोत्रे व्यभिचारवारणायेति वदन्ति / समाधान इति / इदं चोद्भूतानुद्भूतरूपाभ्यामारम्भपक्षेऽन्यथा सार्वकालिकयौगपद्यप्रत्ययानुपपत्तेः / वस्तुतस्तयोर्गुणविरोधे-नारम्भकत्वमेव न भवतीति यथाकरमेव ग्राह्यमिति मिश्राः / यत्र तु भूय इति / इदमपि कर्मवैजात्यादन्यथा कारणैकजात्ये कार्यवैलक्षण्यानुपपत्तेरिति भावः / चक्षुरादीनामिति / चक्षुरादेरणुत्वे स्थौल्याग्रहप्रसङ्गः, तदवच्छेदेन सन्नि(क?)र्षा(भावादिति?) भावः /