________________ विभाग-५ 163. // न्यायलीलावती प्रकाश // यद्यपि चक्षुस्तैजसत्वं प्रागेव साधितं तथापि गोलकसम्बद्धमेव तेजश्चक्षुरस्तु नाश्रयबहिर्वर्तीति शङ्कामाह-तथापीति / विशिष्टादृष्टोपगृहीतमिति / प्रसन्नान्धव्यावृत्तये अधिष्ठानादन्यदेशगामित्वाभावसाम्येनाह-कर्णशष्कुलीवदिति / यथा कर्णशष्कुलीबहिर्वृत्त्याकाशं न श्रोत्रमित्यर्थः / ननु चाप्राप्तत्वाविशेषात्कुड्यव्यवहितमपि चक्षुर्गृह्णीयादित्यत आह-न चेति / गोलकाद् बहिनिर्गच्छच्चक्षुः कियदूरमेव गच्छति नातिदूरम्, स्फटिकादिना न प्रतिबध्यते किन्तु कुड्यादिनेति त्वदुपगमवन्मयापि देशस्वभावविशेषस्य योग्यतानियामकत्वोपगमादित्यर्थः / ननु विषयसम्बद्धस्वभावत्वाच्चक्षुषो न पवनेन दूरापनय इत्याह-तेजोभेद इति / कराभ्यामिति / यद्यपि करादिवारणीयमपि काण्डादि वायुना न प्रतिबध्यत इत्यनैकान्तिकं तथापि वेगमान्द्यस्यावश्यकतया यावद्रं निर्वाते याति काण्डादि न तावदूरं वायावित्यस्ति / चक्षुस्तु वातनिर्वातयोरुभयत्र तुल्यगाम्येव / तथा च करप्रतिबद्धगतिकं वाते मन्दं गच्छतीति नियम इति भावः / रसनादिकमिति / अधिष्ठानसम्बद्धजलादिभिन्नमिति शेषः / पवन एव प्रत्यक्षस्पर्शाश्रय इति शेषः / दिगन्तरस्थेनेति / सन्निधानवद् व्यवधानेऽपि पर्वतवत्केशस्यापि ग्रहापत्तेर्दूरसाक्षात्कारे महत्त्वविशेषः कारणमिति भावः / ननु यत्र क्वचित् कुड्यादिसत्त्वं न प्रतिबन्धकमपि तु ग्राह्यग्राहकमध्यवर्ति / न चैवं कुड्यादौ मध्यवर्तिनि पर्वताद्य-ग्रहप्रसङ्गः, ग्राह्याधिकपरिमाणवन्मध्यवर्तिनः कुड्यादे: प्रतिबन्धकत्वादित्यभिप्रेत्याहज्ञातृभेदे( ने!) ति / आवृतेति / चक्षुः प्राप्यकारि प्रकाशकत्वे सत्यावृताप्रकाशकत्वात् प्रदीपवत् / न च गोलकपक्षीकरणे बाधः, अतिरिक्तपक्षत्वे चाश्रयासिद्धिः, रसाद्यव्यञ्जकरूपसाक्षात्कारकारणत्वेनोभयसिद्धेन पक्षत्वात् / नन्वावृतत्वं यदीन्द्रियगतिप्रतिबन्धकमध्यस्थितद्रव्यकत्वं त_सिद्धम् / अथाधिष्ठानासम्बन्धार्थग्राहकत्वं तदा शरीरेणानैकान्तिकं शरीरस्य हि स्वावयवोऽधिष्ठानमेव / मैवम्। पूर्वमेव चक्षुस्तैजसत्वसिद्धौ बहिर्वृत्तितार्थमेव विवादात् तैजसत्वेन हेतुविशेषणान्नानैकान्तिकम् / न च तैजसशरीरेणानैकान्तः अन्त्यावयविभिन्नतैजसत्वस्य विवक्षितत्वात् / अत्र यत्र काले चन्द्रसंयुक्तं चक्षुस्तत्काले शाखयापीति तुल्यकालग्रहणोपपत्तिः / न चाग्रावच्छेदेनैष चक्षुःसंयोगो ग्राहकः, अन्यथा मूलावच्छेदेन गोलकस्य नित्यसम्बन्धात्तद्ग्रहापत्तेरिति वाच्यम्, तिर्यग्भागेन शाखाचन्द्रमसोरगावच्छेदेन चक्षुःसंयोगाविरोधादिति समाधाने सत्येव यत्र न तथात्वं तत्राह-अत एवेति / अतिशयितवेगवत्त्वादेवेत्यर्थः / ननु कर्मणां कथमेकत्र चिरत्वमन्यत्र क्षिप्रत्वं पूर्वदेशविभागोत्तरदेशसंयोगयोः कर्मणा जनयितव्ययोरविशेषात् / अत्राहुः / यत्र(तु) भूयोऽवच्छेदेनोत्तरदेशसंयोगस्तत्र क्षिप्रता, यत्र स्वल्पावच्छेदेन स, तत्र चिरत्वम् / न चैवमुन्मील्य निमीलितनयनस्यापि साक्षात्कारापत्तिः, गोलकसन्निकृष्टेन्द्रियस्य विषयसंयोगे सति तज्ज्ञानजनकत्वोपगमात् /