________________ 162 . सन्दर्भग्रन्थाः तेजसां दूरमपनयनात् तेजोभेदे नैवमिति चेन्न, कराभ्यामप्यनावरणापत्तेः / शाखाचन्द्रमसोः समसमयवेदनाच्च / न च तद् भ्रान्तं, यौगपद्यमात्रप्रतिक्षेपापत्तेः / तत्र बाधकाभावादिति चेन्न, तुल्यत्वात् / एतेन रसनादिकमप्यपास्तम्। ___ त्वगपि देहव्यापी उद्भूतस्पर्शः पवन एवास्तामिति नातीन्द्रियतासिद्धिरिति चेन्न, का देशस्य योग्यता, रूपभेदो वा इन्द्रियप्राप्तिर्वा / नाद्यः / दिगन्तरस्थेन सत्यावरणे तदनुपलब्धेः / पुरुषान्तरं प्रति तदावृतमिति चेन्न, एकस्यावृतानावृतत्वविरोधात् / ज्ञातृभेदेनैकस्यैव ज्ञातृपुरोवतिकुड्यादिपरापरदेशसंयोगित्वं तत्त्वमविरुद्धमिति चेन्न, आवृताप्रकाशकत्वेन दीपवत्प्राप्यकारित्वसिद्धिः / नेतरः / तत एवाधिष्ठानबहिर्भूतेन्द्रियसिद्धेः / ऋजुवस्तुग्रहोऽपि तस्यातिशयितवेगवत्त्वेनाप्रतिबन्धात् / तस्य च फलोनेयत्वात् अचिरदीधितिसंयोगवत् / अत एव यौगपद्यस्य भ्रान्तत्वं / // न्यायलीलावती कण्ठाभरणम् // बौद्धः शङ्कतेतथापीति / कर्णशष्कुलीवदिति प्रसाध्याङ्गकम् / विशिष्टादृष्टोपगृहीतत्वमात्रे वा कर्णशष्कुली दृष्टान्तः / बहिर्वृत्त्यभावमात्रे वा प्रसन्नान्धव्यावृत्तये विशिष्टादृष्टोपगृहीतत्वं विशेषणम् / ननु प्राप्तिश्चेन्न तन्त्रं तदा व्यवहितमपि गृह्णीयादित्यत आह-न चेति / विषययोग्यताया एव प्रयोजकत्वं न तु प्राप्तेरित्यर्थः / अन्यथेति / यदि प्राप्य गृह्णीयादित्यर्थः / तेजोभेद इति / शीघ्रगमनशील इत्यर्थः / एतादृशस्यानपनेयत्वे करेणापि चक्षुरपनयो न स्यादित्याह कराभ्यामिति / सन्निकृष्टविप्रकृष्टयोरतुल्यकालग्रहणं न स्यादित्याह-शाखेति / तदिति / वेदनयोः समकालीनत्ववेदनमित्यर्थः / तत्रेति / यौगपद्यमात्र इत्यर्थः / रसनादिकमिति / अधिष्ठानातिरिक्तमित्यर्थः / पवन एवेति / बाह्य एवेत्यर्थः / नेन्दियसिद्धिरिति / अतीन्द्रियसिद्धिरित्यर्थः / यद्वा सिद्धांन्त्यमतेन्द्रियसिद्धिरित्यर्थः / रूपभेद इति / स्वरूपभेद इत्यर्थः / दिगन्तरस्थेनेति / व्यवहितघटनिकटस्थेनेत्यर्थः / पुस्तान्तरमिति / व्यवहितमित्यर्थः / ज्ञातृभेदेनेति / ज्ञात्रोश्चैत्रमैत्रयोः पुरोवर्ति यत् कुड्यं यत्परावरदेशसंयोगित्वमावृतानावृतत्वमविरुद्धमेवेत्यर्थः / चक्षुः प्राप्यकारि प्रकाशकत्वे सति आवृताप्रकाशकत्वात् प्रदीपवदित्यनुमानात् प्राप्यकारित्वसिद्धिरित्याह आवृतेति / इन्द्रियप्राप्तियोग्यताभ्युपगमेनैव दूषयति-नेतर इति / तत एवेति / गोलकस्य दूरस्थेनप्राप्तेरित्यर्थः / महानिलप्रेर्यत्वं यदुक्तं तत्राह-ऋज्विति / तर्हि करप्रेय॑त्वमपि न स्यादिति यदुक्तं तत्राह-तस्येति / निविडावयवद्रव्यापनेयत्वेऽपि महानिलानपनेयत्वं फलबलोनेयमित्यर्थः / अत एवेति / प्राप्यकारित्वादेवेत्यर्थः / सन्निकृष्टविप्रकृष्टयोयुगपत् प्राप्तिरपि पृथक्तया उपपद्यत इति भावः / इन्द्रियत्वेनेति। शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानजनकमनःसंयोगाश्रयत्वमिन्द्रियत्वमितिव्यवस्थापनादिति भावः /