________________ विभाग-५ प्राप्यकारीतावादी-दर्शनो // व्योमवती // नन्वाहङ्कारिकत्वादिन्द्रियाणामयुक्तमेतत् / तथा च प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहङ्कारादिन्द्रियाणामुदयः। किमत्र प्रमाणमिति चेदप्राप्यकारित्वम् / तच्च शाखाचन्द्रमसोर्युगपद् ग्रहणाद् विज्ञातम् / अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण चन्द्रमसा च सम्बन्धाद् युगपद् ग्रहणं न स्यात्, अस्ति च, अतोऽप्राप्यकारित्वम् / तच्च भौतिकेषु न सम्भवति प्रदीपादिष्वदर्शनादित्यभौतिकत्वमन्येषामपि प्रतिपत्तव्यं चक्षुर्दृष्टान्तबलादेव। तथा महदणुप्रकाशकत्वाच्च / यद्धि यावत्परिमाणं तावदेव क्रियां कुर्वद् दृष्टमिति / तथा ह्यल्पपरिमाणं वास्यादि महान्तं वटवृक्षं व्याप्यच्छिदां न करोतीति दृष्टम् / किं तर्हि ? स्वव्याप्तप्रदेश एवेति / चक्षुरपि अल्पपरिमाणत्वान्न पर्वतादिपरिच्छेदकं स्यात्, तत्तु दृष्टमतो न भौतिकमिति / यत्तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् / व्यवहितार्थानुपलब्धा प्राप्तेरुपलम्भात् / अन्यथा हि व्यवहितस्याग्रहणमन्तिके च ग्रहणं न स्याद् अप्राप्तेरुभयत्राविशेषात् / आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधकत्वात्, तथा च प्राप्तिप्रतिषेधं कुर्वदावरणमग्रहणाय कल्प्यते / दृष्टञ्चावरणसामर्थ्यम्, दूरे वा प्रकाशकत्वमतः प्रदीपस्येव प्राप्तार्थपरिच्छेदकत्वम् / तथा च चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहिताप्रकाशकत्वात्, यद् यद् व्यवहिताप्रकाशकं तत्तत् प्राप्तावर्थपरिच्छेदकं यथा प्रदीपः, तथा व्यवहिताप्रकाशकं चक्षुः, तस्मात् प्राप्तार्थपरिच्छेदकमिति // ___ प्राप्तिसद्भावे प्रमाणोपपत्तेः, शाखाचन्द्रमसोः कालभेदेन ग्रहणसद्भावेऽप्याशुभावादुत्पलपत्रशतव्यतिभेदाभिमानवद् युगपद् ग्रहणाभिमानः / यच्च महदणुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम् / तथाहि, चक्षुर्बहिर्गतं बाह्यलोकसम्बन्धाद् विषयपरिमाणमुत्पद्यत इति महदाद्यर्थप्रकाशकं नाभौतिकत्वादिति / // न्यायलीलावती // तथापि विशिष्टादृष्टोपगृहीतं गोलकमेवास्तु इन्द्रियं कर्णशष्कुलीवत् / न च व्यवहितोपलम्भापत्तिः / योग्यदेशस्थस्यैव ग्राह्यत्वात् / अन्यथा महानिले ऋजुवस्त्वग्रहणप्रसङ्गः / पवनेन