________________ 158 सन्दर्भग्रन्थाः अथैतद्दोषपरिजिहीर्षया यदि। गृहीयादगतं चक्षुः पश्येत्सर्वमिदं जगत् / यस्य नास्ति गतिस्तस्य नास्तिदूरं न चावृतम् // 15 // यो हि मन्यते चक्षुः श्रोतं मनोऽप्राप्तविषयमित्यागमादप्राप्तविषयमेव चक्षुरिति तं प्रत्युच्यते / प्राप्तकारितामात्रप्रतिषेधपरत्वादागमस्य तावदविरोधः / क्वचिद्विधेः प्राधान्यं यत्र तस्याविरोधः / क्वचित्प्रतिषेधस्य प्राधान्यं यत्र तदविरोधः / तदत्र विधेरसम्भवात्प्राप्तकारिताप्रतिषेधमात्रेणाप्राप्तविषयत्वं व्यवस्थाप्यते / विधिमुखेन त्वप्राप्तविषयत्वे कल्प्यमान इहस्थमेव चक्षुः सर्व जगत्पश्येत् / यस्य हि गतिर्नास्ति तस्य कुतो दूरम् / समीपस्थोऽपि ह्यनेनार्थोऽगत्वा द्रष्टव्यो विदूरस्थोऽपीति दूरकृतोऽपि विशेषो न स्यात् / यदा चागत्वा पश्यति तदेहस्थमिव विदूरस्थमपि पश्येत् / गतौ हि सत्याभावावृते गतिविघातादावृतं नेक्षत इति युक्तम् / यदा त्वगत्वाद्रष्टव्यं तदावृते गतिप्रतिबन्धाभावादनावृत इव दर्शनं स्यात् // 15 // ___ यदि च दर्शनस्वभावं चक्षुः स्यात्तदा स्वभावस्य सर्वत्रैवाव्याघातात् स्वरूपमपि पश्येत् / तथा हि लोके स्वभावः सर्वभावानां पूर्वमात्मनि दृश्यते / ग्रहणं चक्षुषः केन चक्षुषैव न जायते // 16 // यथा चम्पकमल्लिकादिषु सौगन्ध्यं पूर्व स्वाश्रय एवोपलभ्यते पश्चात्तत्सम्पर्कस्तैलादिस्वपि / यथा चाग्नेरौष्णयं स्वतोऽवस्थितं तद्योगात् परतोऽप्युपलभ्यते / एवं यदि चक्षुदर्शनस्वभावं स्यात्तदा स्वात्मन्येव तावद्दर्शनं स्यात् / कस्मात्पुनश्चक्षुषो ग्रहणं चक्षुषैव न भवति / भावानां स्वभावस्य च स्वात्मन्येव प्रथमतरं विद्यमानत्वाच्चक्षुषैव चक्षुषो ग्रहणं न्याय्यम् / न चक्षुः स्वात्मानं पश्यतीति लोष्टादिवत् परदर्शनमप्यस्य न सम्भाव्यते // 16 //