________________ विभाग-४ 157 विषयो न तु सर्वः, सहभूगन्धाद्यग्रहणात् / घ्राणादिसहभूनि हि गन्धरसस्प्रष्टव्यानि घ्राणादिभिर्न गृह्यन्ते, शक्तिीन्द्रियाणामीदृशीति / मनस्त्वरूपित्वादिति / प्राप्तत्वं मूर्तानामेव व्यवस्थाप्येत, नामूर्तानामिति / मनोऽप्राप्तविषयमिति न विचारः क्रियते / Xxx................xxx आशुवृत्त्या च पर्वतादीनामलातचक्रादिवदिति / आत्मपरिमाणतुल्यस्यैवार्थस्य ग्रहण इष्यमाणे कथं पर्वतादीनां महतां सकृदिव ग्रहणं लक्ष्यते, न क्रमेण ? इत्याशङ्कय युक्तिं तथा ग्रहणे कथयति-आशुवृत्त्या चेत्यादि / यथालातचक्रादिग्रहणं क्रमेण वर्तमानं सकृदिव लक्ष्यते, तथा पर्वतनदीशब्दादिग्रहणमाशुवृत्त्या भवतीति / आहोस्वित्तुल्यातुल्यस्येति / द्राक्षाफलादिदर्शने तुल्यस्य, वालाग्रपर्वतादिदर्शनेऽतुल्यस्येत्यभिप्रायः / उन्मिषितमात्रेणेति / न क्रमदर्शनन्यायेन / एवं श्रोत्रेणेति विस्तरः / कदाचिदल्पीयांसः, यदा मशकशब्दं श्रृणोति / कदाचित् समाः, यदा श्रोत्रपरमाणुसमप्रमाणं कस्यचिच्छब्दं शृणोति / कदाचिद् भूयांसः, यदा मेघशब्दं शृणोतीति / अजाजीपुष्पवदवस्थिताः कालजीरकपुष्पवदवस्थिताः / एकतलावस्थिता इत्यर्थः / // चंद्रकीर्ति वृत्तिसहित चतुःशतकम् // रूपं पश्येद्देशं गत्वा वा पश्येदगत्वा वा पश्येदुभयथा च दोष इति प्रतिपादयन्नाहपश्येच्चक्षुश्चिराहूरे गतिमद्यदि तद्भवेत् / अत्यभ्यासे च दूरे च रूपं व्यक्तं न तच्च किम् // 13 // यदि चक्षुः प्राप्तकारित्वाद्विषयदेशं गच्छेत्तदोन्मिषितमात्रेण न चन्द्रतारकादीनान् गृह्णीयात् / (गतिमतोऽर्थदेशोपग्रहणं) तुल्यकालं विप्रकृष्टविषयग्रहणं (च) अयुक्तं गतिकालस्य भिन्नत्वात् / पश्यति च चक्षुरुन्मिषितमात्रेण समीपस्थवद्विदूरदेशस्थमपीत्ययुक्तमेतत् यदि (च) प्राप्तकारिचक्षुः स्यात्तदात्यभ्यासेऽपि पश्येदक्षिस्थामञ्जनशलाकां दूरे च व्यक्तदर्शनं स्यात् / न चैतत्सम्भवतीत्ययुक्तमेतत् // 13 // __ अपि च / यदि चक्षुर्गत्वा रूपं पश्यति तत्कि दृष्ट्वा तद्देशं गच्छत्युतादृष्ट्वा / उभयथापि दोष इति प्रतिपादयन्नाह। गतेन न गुणः कश्चिद्रूपं दृष्टाक्षि याति चेत् / दष्टव्यं नियमेनेष्टमिति वा जायते वृथा // 14 // यदि रूपं दृष्ट्वा रूपदेशं चक्षुर्यातीति कल्प्यते गतेन तेन गमनेन चक्षुषो न किञ्चित्प्रयोजनम् / विषयदर्शनार्थं चक्षुषो गमनम् / स च विषयः पूर्वमेवेहस्थेन दृष्ट इति न किञ्चिद्गमनस्य प्रयोजनम् / अथादृष्ट्वा गच्छति / तदा दिदृक्षित विषयदर्शनं नियमेन न प्राप्नोति / अद्रष्ट्वाह्यन्धस्येवान-भिलक्षितदेशगमनादृष्टव्यस्य नियमेन दर्शनं न प्राप्नोति // 14 //