________________ 156 सन्दर्भग्रन्थाः // अभिधर्मकोषः स्फुटार्थ टीका // उभाभ्यामपि इति / अभिशब्दादेकेनापि नात्र नियमः / द्वयोविवृतयोः परिशुद्धतरं दर्शन मित्युक्तं भवति / नैकतरान्यथीभावादिति / उन्मीलितार्धनिमीलितयोरक्ष्णोरेकतरस्यान्यथीभावात् / द्वयोरेकतरद् यद्यन्यथीभवति। यदि यदुन्मीलितं तदर्धनिमीलितं क्रियते, सर्वनिमीलितं वा; यच्चार्ध-निमीलितं यदि तत् सर्वनिमीलितं क्रियेत सर्वोन्मीलितं वा, तदा द्विचन्द्रदर्शनं न भवति / अतोऽव-गम्यतेद्वयोरपि चक्षुषोरत्र विज्ञानोत्पत्तौ व्यापारोऽस्तीति / देशाप्रतिष्ठितत्वाद् रूपवदिति / विपरीत-दृष्टान्तः / यथा रूपस्य देशप्रतिष्ठितत्वादाश्रयविच्छेदाद् विच्छेदो भवति, नैवं विज्ञानस्य / न हि विज्ञानं देशप्रतिष्ठितम्, किं तर्हि ? देशाप्रतिष्ठितम्; अमूर्तत्वात् / देशाप्रतिष्ठितत्वाच्च नाश्रयविच्छेदादिच्छेदो भवति। तथाहि दूरादूपं पश्यतीति / यत्र रूपं दृश्यते, न तत्र तद्ग्राहकं चक्षुरिन्द्रियमस्ति, तत्र प्रमाणानुपलभ्यमानत्वात्, तत्राविद्यमानदेवदत्तादिवत् / यथा चक्षुः, एवं श्रोत्रमपि वक्तव्यम् / इतर आह'स्वविषयदेशप्रापि चक्षुःश्रोत्रम्; इन्द्रियत्वात्, घ्राणेन्द्रियादिवत् / ' अनेनानुमानेन तत्र प्रमाणानुपलभ्यमानत्वं हेतुमसिद्धं दर्शयति / आचार्य आह-सति च प्राप्तविषयत्व इति / विस्तर:-यदि प्राप्तविषयं चक्षुःश्रोत्रं कल्प्येत, दिव्यं चक्षुःश्रोत्रमिह मनुष्येषु ध्यायिनां नोपजायेत / यदि हि चक्षुःश्रोत्रमतिविप्रकृष्टदेशस्थं व्यवहितं च कुड्यादिभिर्यथायोगं रूपं शब्दं गृह्णीयाद्, एवमस्य दिव्यत्वं सम्भवेत्, तच्च प्राप्तविषयत्वे न स्यात् / घ्राणादिवत् / यथा घ्राणजिह्वाकायाः प्राप्तविषयत्वाद् दिव्या ध्यायिनां नोपजायेरन्, तद्वत् / अनेन स्वविषयदेशप्रापित्वपक्षस्य धर्मिविशेषविपर्ययापक्षालत्वं दर्शयति / सम्भवद्दिव्यत्वे हि चक्षुःश्रोत्रे धर्मी / असम्भवद्दिव्यत्वभावो विशेषविपर्ययः / स प्राप्नोतीति दोषः / अनेन दोषेणाननुमानत्वात् तत्प्रमाणानुपलभ्यमानत्वं सिद्धं व्यवस्थापयति / तस्मादप्राप्तविषयं चक्षुःश्रोत्रम् / यद्यप्राप्तविषयं चक्षुरिति विस्तरः / आसन्नेनातिदूरस्थेन तिरस्कृतेन वा तुल्या तदप्राप्तिरिति तत्र दर्शनं प्रसञ्जयति / किमिदं परस्य साधनम्, उत दूषणमिति ? यदि तावदेवं साधनम्-'अतिदूरं तिरस्कृतं चक्षुःश्रोत्रेण गृह्यते, अप्राप्तत्वात्, आसन्नविषयवत्' इति, तदसाधनम्: हेतोः स्वयमनिश्चित्वात्, पूर्वाभ्युपगमविरोधाद्वा / अथ दूषणम्-'सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रलक्षणस्य धर्मिणः प्रसज्यते', तददूषणम्; अनुमानबाधनात् / कथम् ? इत्याह-कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षतीति / प्रश्नमुखेनायस्कान्तनिदर्शनमुपन्यस्य सर्वाप्राप्तग्राहकत्वं चक्षुःश्रोत्रस्य साधयति-न सर्वाप्राप्तग्राहकं चक्षुःश्रोत्रम्: सर्वाप्राप्तग्रहणशक्तिहीनत्वात्, अयस्कान्तवत् / अयस्कान्तो ह्यप्राप्तमयो गृह्णाति, कर्षतीत्यर्थः, न च सर्वमप्राप्तं गृह्णाति; तद्वच्चक्षुःश्रोत्रम् / प्राप्तविषयत्वेऽपि चैतत् समानमिति / नातिदूरतिरस्कृतो विषयश्चक्षुःश्रोत्रेण गृह्यते; ग्रहणायोग्यत्वात्, सम्प्राप्ताञ्जनशलाकावत् / अथ वा-न सर्वस्वग्राह्यग्राहि चक्षुःश्रोत्रम्: इन्द्रियस्वाभाव्यात्, घ्राणेन्द्रियादिवत् / घ्राणादीनां हि प्राप्तो