________________ विभाग-४ // अभिधर्मकोषः स्वोपज्ञ टीकासमेतः // तद्यदि चक्षुः पश्यति, किमेकेन चक्षुषा रूपाणि पश्यति ? आहोस्विद् उभाभ्याम् ? नात्र नियमः / उभाभ्यामपि चक्षुभ्यां पश्यति व्यक्तदर्शनात् / उभाभ्यामपि चक्षुर्त्यां पश्यतीत्याभिधार्मिकाः / तथा हि-द्वयोर्विवृतयोः परिशुद्धतरं दर्शनं भवति / एकस्मिश्चोन्मीलिते चक्षुषि द्वितीये चार्धनिमिलिते द्विचन्द्रादिग्रहणं भवति; नैकतरान्यथीभावात् / न चाश्रयविच्छेदाद् विच्छेदप्रसङ्गः; विज्ञानस्य देशाप्रतिष्ठितत्वाद् रूपवदिति // यदि चक्षुः पश्यति शृणोति यावन्मनो विजानाति, किमेषां प्राप्तो विषयः ? आहोस्विदप्राप्तः ? चक्षुःश्रोत्रमनोऽप्राप्तविषयम, तथा हि-दूराद् रूपं पश्यति, अक्षिस्थमञ्जनं न पश्यति / दूराच्छब्दं शृणोति, सति च प्राप्तविषयत्वे दिव्यं चक्षुःश्रोत्रमिह मनुष्येषु ध्यायिनां नोपजायेत, घ्राणादिवत् / यद्यप्राप्तविषयं चक्षुः, कस्मान्न सर्वमप्राप्तं पश्यति दूरं तिरस्कृतं च ! कथं तावदयस्कान्तो न सर्वमप्राप्तमयः कर्षति ! प्राप्तविषयत्वेऽपि चैतत् समानम् / कस्मान्न सर्वं प्राप्तं पश्यत्यञ्जनं शलाकां वा / यथा च घ्राणादीनां हि प्राप्तो विषयो न तु सर्वः, सहभूगन्धाद्यग्रहणात्; एवं चक्षुषोऽप्यप्राप्तः स्यात्, न तु सर्वः / मनस्त्वरूपित्वात् प्राप्तुमेवाशक्तम् / केचित् पुनः श्रोत्रं प्राप्ताप्राप्तविषयं मन्यन्ते; कर्णाभ्यन्तरेऽपि शब्दश्रवणात् / शेषं तु घ्राणजिबकायाख्यम् / Xxx.............................xxx किं पुनरेभिश्चक्षुरादिभिरात्मपरिमाणतुल्यस्यार्थस्य ग्रहणं भवति, आशुवृत्त्या च पर्वतादीनामलातचक्रादिवद् ? आहोस्वित् तुल्यातुल्यस्य ? यानि तावदेतानि प्राप्तविषयाण्युक्तानि, एभिः / ___ यावन्तो हीन्द्रियपरमाणवस्तावन्तो हि विषयपरमाणवः समेत्य विज्ञानं जनयन्ति / चक्षुःश्रोत्राभ्यां त्वनियमः / कदाचिदल्पीयांसो यदा वालाग्रं पश्यति, कदाचित् समा यदा द्राक्षाफलं पश्यति, कदाचित् भूयांसो यदा महान्तं पर्वतं पश्यत्युन्मिषितमात्रेण / एवं श्रोत्रेण मशकमेघादिशब्दश्रवणे घोषम् / मनस्त्वमूर्तिवदेवेति परिमाणपरिच्छेदः सम्प्रधार्यते / / कथं पुनरेषां चक्षुरादीन्द्रियपरमाणूनां सन्निवेशः ? चक्षुरिन्द्रियपरमाणवस्तावदक्षितारकायामजाजीपुष्पवदवस्थिताः / अच्छचर्मावच्छदितास्तु न विकीर्यन्ते / अधरौत्तर्येण पिण्डवदवस्थिता इत्यपरे / न चान्योऽन्यमावृण्वन्ति; स्फटिकवदच्छत्वात् / XXX