________________ 154 सन्दर्भग्रन्थाः मनोऽपि प्राप्यकारीति ये प्राहुः क्षणमात्रतः / विदूरतरदेशस्थं चेतस्तेषां न युज्यते // 2527 // अत्रोद्योतकरकुमारिलादयः प्रमाणयन्तिप्राप्यकारिणी चक्षुःश्रोत्रे बाह्येन्द्रियत्वात् घ्राणादिवत् / बाह्यग्रहणमन्तःकरणेन मनसा व्यभिचारपरिहारार्थम् / तथा करणत्वे सति व्यवहितार्थानुपलम्भकत्वात् घ्राणादिवत् / विषयनिवृत्त्यर्थं करणत्वे सतीति विशेषणम् / तथा रूपशब्दौ प्राप्यकारिबाह्येन्द्रियग्राह्यौ बाह्येन्द्रियार्थत्वात्, गन्धरसवत् / तथा रूपशब्दविज्ञाने प्राप्यकारिबाह्येन्द्रियग्राह्यविषयालम्बने बाह्येन्द्रियार्थालम्बनत्वात्, गन्धरसज्ञानवदिति / अत्र दूषणमाह-यत्त्वित्यादि। यत्तु बाह्येन्द्रियत्वादि प्राप्यकारित्वसाधनम् / अन्यधर्मविजातीयाद्विरोधाद्वयभिचारि तत् // 2528 // सुबोधम् // 2528 // // प्रमाणसमुच्चयम् // सान्तरग्रहणं न स्यात् प्राप्तौ ज्ञानाधिकस्य च / अधिष्ठानाबहिर्नाक्षं न शक्तिर्विषये क्षणे // 20 // यथोक्तं दिङ्नागेन, बहिर्वतित्वादिन्द्रियस्योपपन्ने सान्तरग्रहणमितिचेदत उक्तं 'अधिष्ठानाद्बहिर्नाक्ष' मिति / किंत्वधिष्ठानदेश एवेन्द्रियम् / कुतः तच्चिकित्सादियोगतः / सत्यपि च बहिर्भावे न शक्तिविषयेक्षणे। यदि च स्यात् तदा पेश्यदप्युन्मील्य निमीलनात् // यदि च स्यादुन्मील्यनिमीलितनयनोऽपि रूपं पश्येदुन्मीलनादस्ति बहिरिन्द्रियमिति / ततश्चाप्राप्यकारित्वात् यद्बौद्धैः श्रोत्रचक्षुषोः / लक्षणव्याप्तिसिद्ध्यर्थं संयोगो नेति कीर्त्यते // किंच यदि प्राप्यकारि चक्षुः स्यात्सान्तराधिकग्रहणं न प्राप्नोति / नहीन्द्रियाणां निरन्तरे विषये गन्धादौ सान्तरग्रहणं, दृष्टं, नाप्यधिकग्रहणं / अथ मतं बहिरधिष्ठानावृत्तिरिन्द्रियस्य अत: उपपन्नं तद्विषयस्य सान्तराधिकग्रहणमिति तदयुक्तम् // ननु ते चक्षुःश्रोत्रे आश्रयाबहिर्भवतः / अतश्च सान्तराधिकयोर्ग्रहणमुपपद्यते चेत् / तदपि न युज्यते / कुतः अधिष्ठानादित्यादि / ___ चक्षुःश्रोत्रविज्ञानयोरपि यस्मात् प्रत्यक्षत्वमिष्यते तयोश्च सन्निकर्षजत्वं न संभवति / तदसंभवदर्शनार्थमाह सान्तरग्रहणमिति / सान्तरग्रहणं विच्छिन्नग्रहणं अधिकग्रहणं इन्द्रियासम्बद्धग्रहणमिति //