________________ 153 विभाग-४ येनाभिन्नदेशत्वेऽपि रूपमेवानुसरति चक्षुर्न रसं तद्देशवर्तिनमपि, नाप्यतिदूरदेशवर्ति रूपमिति / स्वहेतुनियामक इति चेत् / तदेतदप्राप्तिपक्षेऽपि समानमित्यलं विस्तरेण // 2523 // भिन्नाभानामित्यादिना परस्य चोद्यमाशङ्कते / भिन्नाभानां मतीनां चेदेकालम्बनता कथम् / तुल्यं रूपधियामेतच्चोद्यं बाह्यार्थवादिनाम् // 2524 // कथं भिन्नाभानां मतीनामेको विषयो भवेत, एवं हि रसरूपादिबद्धीनामेकालम्बनता स्यादिति परस्याभिप्रायः / परिहारमाहतुल्यमित्यादि / रूपधियां रूपविषयाणामपि बुद्धीनाम्, एतच्चोद्यं समानंकथमेकविषयता भवेरासन्नादिभेदेन स्पष्टादिप्रतिभासानामिति / एतच्च बाह्यार्थवादिनां चोद्यम् / ये विषयगतमेवाकारं वर्णयन्ति न विज्ञानगतम् ते पुनर्विज्ञानवादिनस्तेषां सर्वमेव विज्ञानं निर्विषयमात्मसंवेदनं स्पष्टाद्याकारभेदवद्भिन्नमेवोपजायत इति न तेषां चोद्यम् / येषामपि बाह्यार्थवादिनां साकारं ज्ञानमिति पक्षस्तेषां सर्वात्मना विषयसारूप्यानभ्युपगमात्केनचिदंशेन सारूप्याद्भिन्नाभानामपि मतीनामेकविषयत्वमविरुद्धमेवेति न चोद्यम् // 2524 // शब्दस्य तर्हि प्राप्तिग्रहणे किं बाधकं प्रमाणं अप्राप्तिग्रहणे च किं साधकमिति प्रश्ने सत्याहप्राप्तीत्यादि। प्राप्तिग्रहणपक्षे तु कर्णाभ्यन्तरपक्षवत् / / न विच्छिन्न इति ज्ञानं मेघशब्दादिके भवेत् // 2525 // कर्णाभ्यन्तरपक्षवदिति वैधर्म्यदृष्टान्तः / षष्ठयन्ताद्वतिः / यथा कर्णकण्डूविनोदनकारिणः पतत्रिपक्षस्याविच्छिन्नं शब्द उपलभ्यते, तथा मेघादिशब्दस्यापि कदम्बगोलकन्यायेन प्रविसर्पतः कर्णदेशमागतस्यैव ग्रहणात्तुल्यं ग्रहणं प्राप्नोति / न च स्वकारणसंयोगसमवायिदेशवशादयं विच्छेदविभ्रम इति शक्यं वक्तुम् / तेषां श्रोत्रेणाग्रहणात् / न ह्यविषयीभूतपदार्थाकारमारोपयदुत्पद्यते क्वचिद्विज्ञानम् / नहि चक्षुर्विज्ञानं रससारूप्यं समारोपयतीति // 2525 // तदेवं प्राप्तिग्रहणे बाधकं प्रमाणमभिधायाप्राप्तिग्रहणे साधकमाहतद्विच्छिन्न इत्यादि / तद्विच्छिन्न इति ज्ञानजनकत्वाद्यथा मनः। श्रोत्रमप्राप्यकारि स्यान्नान्यथैव त्वगादिवत् // 2526 // तदिति / तस्मात् / नान्यथैवं त्वगादिवदिति वैधर्म्यदृष्टान्तः / यथा त्वगादेरिन्द्रियस्य विच्छेदेन ग्रहणं न भवति तथाऽत्रापि स्यादिति यावत् // 2526 / / मनोपीत्यादिना दृष्टान्तस्य साध्यविकलतामाशय परिहरति /