________________ 152 . सन्दर्भग्रन्थाः दूरमध्यसमीपस्थैरक्रमेणैव गम्यते / प्रयोगानन्तरं तत्र सर्वेषां ज्ञानजातितः // 2522 // क्रमग्रहणमसिद्धं शब्दप्रयोगानन्तरं युगपद्विज्ञानोत्पत्तेः // 2522 // यच्चोक्तम्-नापि तीव्रमन्दादिसम्भव इति, तत्राह-दूरासन्नादीत्यादि / दूरासन्नादिभेदेन स्पष्टास्पष्टं यथेक्ष्यते / रूपं तथैव शब्देऽपि तीव्रमन्दादिविद्भवेत् // 2523 // यथा रूपमप्राप्य गृह्यमाणमध्या(व्या?)पि च स्पष्टमीक्ष्यते तथा शब्देऽप्यध्या(व्या?)पिन्यप्राप्य गृह्यमाणे च तीव्रमन्दादिवेदना भविष्यति / ननु च परस्य रूपस्याप्यप्राप्य ग्रहणमसिद्धं तत्कथं दृष्टान्तत्वेनोच्यत इति / नैष दोषः। यद्यपि परस्य वचनमात्रान्न सिद्धम्, तथापि यत्प्रमाणसिद्धं तदुभयोरपि सिद्धम् / किं पुनरत्र प्रमाणम्, सन्निकृष्टविप्रकृष्टयोस्तुल्यकालग्रहणम् / यो हि गतिमान्स सन्निकृष्टमाशु प्राप्नोति, विप्रकृष्टं चिरेण, यथा देवदत्तो ग्रामाद्ग्रामान्तरं गच्छन्, शाखाचन्द्रमसोस्तु तुल्यकालमुन्मेषसमनन्तरमेव ग्रहणं दृष्टं, तस्मादप्राप्यकारि चक्षुरिति गम्यते / अत्रोद्योतकरः प्राहज्ञानानामाशूत्पत्तेः कालभेदस्याग्रहणान्मिथ्याप्रत्यय एष उत्पलपत्रशतवेधवदिति / तदेतदसम्यक्, एवं हि सरो रस इत्यादावपि क्रमव्यवसायो न स्यादाशूत्पत्तेस्तुल्यत्वात्, ततश्च प्रतीतिभेदो न स्यात्, सर्वासां च बुद्धीनामाशूत्पत्तिरस्तीति न कदाचित्क्रमग्रहणं स्यादिति प्राग् निर्लोडितमेतद्विस्तरेण / पुनः स एवाह-यद्यप्राप्यकारि चक्षुर्भवेत्तदा न कुट्यादेरावरणस्य सामर्थ्यमस्तीत्यावरणानुपपत्तिः / यच्च दूरीभूतस्याग्रहणं अन्तिके च ग्रहणं तत्र (न?) स्यादविशेषात् / स्यादेतत् य एव हि चक्षुषो विषयीभवत्यर्थः स उपलभ्यते यश्च न भवति नासावुपलभ्यत इति / तच्च नैवम् / सम्बन्धव्यतिरेकेण विषयीभावानुपपत्तेः कोऽयं सम्बन्धव्यतिरेकेण विषयीभावो नाम / केवलं मयोच्यते सम्बन्ध इति भवताऽभिधीयते विषयीभाव इति न कश्चिद्विशेष इति / तदेतदसम्यक् / कारणीभावो हि विषयीभाव उच्यतेऽस्माभिर्न सम्बन्धः / तथाहि-रूपादिविषयश्चक्षुषो विज्ञानोत्पत्तौ सहकारितां प्रतिपद्यमानो विषयीभवतीत्युच्यते, नतु तेन सहाश्लिष्यन् / द्विविधश्च सहकारार्थः। परस्प(म्प?)रोपकारो वा, यथा-प्रभावश्च(प्रस?)रादपवरकप्रतिष्ठस्य, एकार्थक्रिया वा, यथा-प्रभावश्च(प्रस?)रादपवरकप्रतिष्ठस्य, एकार्थक्रिया वा, यथोन्मिषतमात्रेण रूपं गृह्णतः / उभयथापि विज्ञानस्य कारणविशेष एव विषय उच्यते, नतु सम्बन्धी / स एव कारणविशेषप्रतिनियमोऽसति सम्बन्धे न स्यादिति चेत् / न / स्वकारणशक्तितः प्रतिनियमसिद्धे-स्तथाभूत एवासौ स्वकारणादुत्पद्यमान उत्प(पप ?)द्यते, येन कश्चिदेव ज्ञानजनको भवति नान्यः, कारणभेदेन भिन्नस्वभावत्वात्सर्वभावानाम् / यथा च भवतस्तुल्येऽपि सम्बन्धे किमिति चक्षू रूपमेवोपलभते न रसम् / तेनासम्बन्धानोपलभत इति चेत्, स एव हि सम्बन्धः किमिति न स्यात्, देशस्याभिन्नत्वात् / न ह्यत्र नियामकं किञ्चिदस्ति कारणम्,