________________ 148 सन्दर्भग्रन्थाः ऽविशेषेऽपि सामान्यमेवोपलभ्यते न विशेषः इत्यभिधातव्यम्; विशेषाभावात् / तन्न प्राप्यकारित्वं चक्षुषो घटते / न चाप्राप्यकारित्वे सकलार्थप्रकाशकत्वप्रसङ्गः; योग्यदेशापेक्षणाद् अयस्कान्तवत्, नहि अयस्कान्तोऽयसोऽप्राप्तस्याकर्षणे प्रवर्तमानः सर्वस्यायसः तथाविधस्याकर्षणे समर्थः, अपि तु योग्यदेशस्थस्यैव / अञ्जन-तिलक-मन्त्रादिर्वा अप्राप्तस्यापि स्त्र्यादेशकर्षक: सन् न सर्वस्याकर्षको दृष्टः नियतस्यैव स्त्र्यादेः तेनाकर्षणोपलम्भात् / भवतोऽपि च 'चक्षूरश्मयो लोकान्तं गत्वा किमिति रूपं न प्रकाशयन्ति, चक्षुर्वा संयुक्तसमवायाद् यथा रूपं प्रकाशयति तथा गन्धादिकमपि किमिति न प्रकाशयेत् तत्रापि तस्याविशेषाद् ?' इति चोद्ये योग्यतैव शरणम् / ___ यदपि 'कारकत्वात्' इत्युक्तम्; तदपि मनसा अयस्कान्ताऽञ्जनतिलकमन्त्रादिना चानैकान्तिकम्, तस्य कारकत्वेऽपि अप्राप्यकारित्वात् / यदपि 'अत्यासन्नार्थाऽप्रकाशकत्वात्' इत्यस्य साध्याविशिष्टत्वमुक्तम्; तदप्ययुक्तम्; प्रसङ्गसाधनत्वादेतस्य, श्रोत्रादौ हि प्राप्यकारित्वाऽत्यासन्नार्थप्रकाशकत्वयोः व्याप्यव्यापकभावसिद्धौ सत्यां परस्य व्यापकाभावेष्टया अत्यासन्नार्थाऽप्रकाशकत्वलक्षणया अनिष्टस्य प्राप्यकारित्वलक्षणव्याप्याभावस्य आपादनमात्रमेवानेन विधीयते इति / ॥धवला // : सव्वेसु इंदिएसु अपत्तत्थग्गहणसत्तिसंभावादो होदु णाम अपत्तत्थगहणं चक्खिदियणोइंदियाणं, ण सेसिंदियाणं; तहोवलंभाभावादो त्ति / ण, एइंदिएसु फासिंदियस्स अपत्तणिहिग्गहणुवलंभादो / तदुवलंभो च तत्थ पारोहमोच्छणादुव लव्भदे / सेसिंदियाणपत्तत्थगहणं कुदोवगम्मदे / जुत्तीदो / तं जहा घाणिदिय-जिभिदिय-फासिंदियाणमुक्कस्सविसओ णवजोयणाणि / जदि एदेसिमिंदिया मुक्कस्सखओवसमगदजीवो णवसु जोयणेसु ट्ठिददव्वेहितो विप्पडिय आगदपोग्गलाणं जिब्भा-घाण-फासिदिएसु लग्गाणं रस-गंध फासे जाणदि तो समंतदो णवजोयणब्भंतरट्ठिदगृहभक्खणं तग्गंधजणिदअसादं च तस्स पसज्जेज्ज / ण च एवं, तिविदियक्खओवसमगचक्कट्ठीणं पि असायसायरं तोपवेसप्पसंगादो / किं च-तिव्वखओवसमगदजीवाणं मरणं पि होज्ज, णवजोयणब्भंतरट्ठियविसेण जिब्भाए संबंधेण घादियाणं णवजोयणब्भंतरट्ठिदअग्गिणा दज्झमाणाणं च जीवणाणुववत्तीदो / किं च-ण तेसिं महुरभोयणं वि संभवदि, सगक्खेत्तंतोट्ठियतियदुअपिचुमंदकडुइरसेणमिलिददुद्ध महुरत्ताभावादो / तम्हा सेसिंदियाणं पि अपत्तग्गहणमत्थि त्तिइच्छिदवं / न कात्स्येनाप्राप्तमर्थस्यानिःसृतत्वमुक्तत्वं वा ब्रूमहे यतस्तदवग्रहादिनिदानमिन्द्रियाणामप्राप्यकारित्वमिति / किं तर्हि / कथं चक्षुरनिन्द्रियाभ्यामनिःसृतानुक्तावग्रहादि तयोरपि प्राप्यकारित्वप्रसंगादितिचेन्न योग्यदेशावस्थितेरेव प्राप्तेरभिधानात् / तथा च रसगंधस्पर्शानां स्वग्राहिभिरिन्द्रियैः