________________ विभाग-३ 149 स्पष्टं स्वयोग्यदेशावस्थितिः शब्दस्य च / रूपस्य चक्षुषाभिमुखतया, न तत्परिच्छेदिना चक्षुषा प्राप्यकारित्वमनिःसृतानुक्तावग्रहादिसिद्धेः / / // न्यायदीपिका // नन्वतज्जन्यस्यान्यस्य * कथं तत्प्रकाशकत्वमिति चेत्, घटाद्यजन्यस्यापि प्रदीपस्य तत्प्रकाशकत्वं दृष्ट्वा सन्तोष्टव्यमायुष्मता / अथ कथमयं विषयं प्रति नियमः ? यदुक्तं घटज्ञानस्य घट एव विषयो, न पर इति / अर्थजत्वं हि विषयं प्रति नियमकारणं, तज्जन्यत्वात् / तद्विषयमेव चैतदिति / तत्तु भवता नाभ्युपगम्यते / इति चेत्, योग्यतैव विषयं प्रति नियमकारणमिति ब्रूमः / / का नाम योग्यतेति, उच्यतेस्वावरणक्षयोपशमः / तदुक्तं "स्वावरणक्षयोपशमलक्षणयोग्यतया हि प्रतिनियतमर्थं व्यवस्थापयति" इति / एतेन तदाकारत्वात्तत्प्रकाशकत्वमित्यपि प्रत्युक्तम्, अतदाकारस्यापि प्रदीपादेस्तत्प्रकाशकत्वदर्शनात् / ततस्तदाकारवत्तज्जन्यत्वमप्रयोजकं प्रामाण्ये / सविकल्पकविषयभूतस्य सामान्यस्य परमार्थत्वमेवाबाधितत्वात् / प्रत्युत सौगताभिमत एव स्वलक्षणे विवादः / तस्मान्न निर्विकल्पकरूपत्वं प्रत्यक्षस्य सन्निकर्षस्य च योगाभ्युपगतस्याचेतनत्वात्कुतः प्रमितिकरणत्वं कुतस्तरां प्रमाणत्वं कुतस्तमा प्रत्यक्षत्वम् ? किञ्च रूपप्रमितेरसन्निकृष्टमेव चक्षुर्जनकम् / अप्राप्यकारित्वात्तस्य / ततः सन्निकर्षाभावेपि साक्षात्कारिप्रमोत्पत्तेर्न सन्निकर्षरूपतैव प्रत्यक्षस्य / न चाप्राप्यकारित्वं चक्षुषोऽप्रसिद्धं, प्रत्यक्षस्तथैव प्रतीतेः / ननु प्रत्यक्षागम्यामपि चक्षुषो विषयप्राप्तिमनुमानेन साधयिष्यामः परमाणुवत् / यथा प्रत्यक्षासिद्धोपि परमाणुः कार्यान्यथानुपपत्त्यानुमानेन साध्यते, तथा चक्षुः प्राप्तार्थप्रकाशकं बहिरिन्द्रियत्वात्त्वगिन्द्रियनुमानात्प्राप्तिसिद्धिः / प्राप्तिरेव हि सन्निकर्षः / ततो न सन्निकर्षस्याव्याप्तिरिति चेन्न, अस्यानुमानाभासत्वात् / तद्यथा चक्षुरित्यत्र कः पक्षोऽभिप्रेतः किं लौकिकं चक्षुरुतालौकिकम् ? आद्ये हेतोः कालात्ययापदिष्टत्वं गोलकाक्षस्य चक्षुषो विषयप्राप्तेः प्रत्यक्षबाधितत्वात् / द्वितीये त्वाश्रयासिद्धः, अलौकिकस्य चक्षुषोऽद्याप्यसिद्धेः / शाखासुधादीधितिसमानकालग्रहणाद्यन्यथानुपपत्तेः चक्षुरप्राप्यकारीति निश्चीयते / तदेवं सन्निकर्षाभावेपि चक्षुषा रूपप्रतीतिर्जायते इति सन्निकर्षोऽव्यापकत्वात् प्रत्यक्षस्य स्वरूपं न भवतीति स्थितम् /