________________ विभाग-३ 147 चक्षूरश्मीनामेव तत्प्रकाशकत्वम्, न जलादीनाम् इति; सर्वत्र दृष्टहेतुवैफल्यापत्तेः / तथा च दृष्टान्ताऽसिद्धिः; प्रदीपादावपि अन्यस्यैव तत्प्रकाशकत्वप्रसङ्गात्, प्रत्यक्षबाधनम् उभयत्र / रूपप्रकाशकत्वञ्च रूपस्यानुभवः, तत्र ज्ञानजनकत्वं वा? प्रथमविकल्पे रूपज्ञानेनानेकान्तः; तस्यातैजसत्वेऽपि रूपानुभवसम्भवात् / द्वितीयविकल्पे तु घटादिरूपेणानेकान्तः, तस्याऽतैजसस्यापि रूपज्ञानजनकत्वाभ्युपगमात् / 'करणत्वे सति' इति विशेषणेऽपि आलोकार्थसन्निकर्षेण चक्षुरूपयोः संयुक्तसमवायेन चानेकान्तः, 'द्रव्यत्वे सति' इति विशेषणेऽपि चन्द्रादिनाऽनेकान्तः / अतश्चक्षुषः कुतश्चित्तैजसत्वाऽसिद्धेः कथं रश्मिवत्त्वं सिद्धयेत् यतः प्राप्यकारित्वं स्यात् ? किञ्च, अस्य प्राप्यकारित्वे विषयश्चक्षुर्देशमागच्छेत्, चक्षुर्वा विषयदेशम् ? तत्राद्यविकल्पे प्रत्यक्षबाधा; चक्षुःप्रदेशे विषयस्य गमनाऽप्रतीतेः, न हि चक्षुःप्रदेशे पर्वतादेविषयस्यागमनं केनचिद् दृष्टमिष्टं वाऽनुपहतचेतसा / द्वितीयविकल्पेऽपि अध्यक्षविरोधः; विषयं प्रति चक्षुषो गमनाऽप्रतीतेः, 'चक्षुर्गत्वा नार्थेनाभिसम्बद्ध्यते, इन्द्रियत्वात्, त्वगादिवत्' इत्यनुमानविरोधश्च / तदविशेषेऽपि दृष्टातिक्रमेण कस्यचित् तत्र गत्वा सम्बन्धाभ्युपगमे यथाप्रतीति असम्बन्ध एव किन्नाभ्युपगभ्यते अलं प्रतीत्यपलापेन? किञ्च, चक्षुर्गत्वा संयुज्य अर्थं चेद् द्योतयति, तर्हि यथा विप्रकृष्टस्याऽऽदित्यादे: संयुक्तसमवायाद् रूपं द्योतयति, एवं कर्माऽपि द्योतयेत् संयुक्तसमवायाऽविशेषात् / कथञ्चैवंवादिनः काचाऽभ्रपटलस्वच्छोदकस्फटिकाद्यन्तरितार्थानामुपलम्भः स्यात् चक्षुषस्तत्र गच्छतः काचाद्यवयविना प्रतिबन्धात् ? अथ काचादिकं भित्त्वा चक्षुरश्मयोऽर्थदेशं गच्छन्ति; तर्हि तद्व्यवहितार्थोपलम्भसमये काचादेरनुपलम्भः, तदाधेयद्रव्यस्य पातश्च स्यात् तदाधारस्यावयविनो नाशात्, न चैवम्, युगपत्तयोनिरन्तरमुपलम्भात् / पूर्वपूर्वव्यूहनिवृत्तौ उत्तरोत्तरतद्रूपव्यूहान्तरस्याशूत्पत्तेः प्रदीपाग्निज्वालावत् निरन्तरताभ्रमे सौगतमतसिद्धिः; सर्वार्थानां प्रतिक्षणं क्षणिकत्वेऽपि इत्थं निरन्तरताभ्रमप्रसङ्गात् / एतेन 'शाखाचन्द्रमसोः क्रमेणानुभवेऽपि आशुवृत्त्योत्पलपत्रशतव्यतिभेदवद् युगपत्प्रतिपत्त्यभिमानो भ्रान्तिनिबन्धनः' इति प्रत्याख्यातम् / यच्चान्यदुक्तम्-'शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्टविप्रकृष्टतोपपत्तेर्दूरनिकटदिव्यवहारः सुघटः' इति; तदपि श्रद्धामात्रम्: इन्द्रियसन्निकर्षेणास्य प्रतिपत्तौ तथा तद्व्यवहारानुपपत्तेः / तथाहियद् इन्द्रियसन्निकर्षेण प्रतीयते न तत्र दूरनिकटादिव्यवहारः यथा रसादौ, इन्द्रियसन्निकर्षेण प्रतीयते च चक्षुर्विषय इति। प्राप्यकारित्वे च चक्षुषः संशयविपर्ययानुपपत्तिः; सामान्यवद् विशेषाणामपि सन्निकृष्टानामुपलम्भसम्भवात् / विशेषानुपलब्धिनिमित्तो हि संशयो विपर्ययश्च / न च चक्षुषा सन्निकृष्टत्वा