________________ 146 . सन्दर्भग्रन्थाः मार्जारादिचक्षुषोः प्रत्यक्षतः प्रतीयन्ते रश्मयः, तत्कथं तद्विरोधः? यदि नाम तत्र ते प्रतीयन्ते अन्यत्र किमायातम् ? अन्यथा हेम्नि पीतत्वस्य सुवर्णत्वेन व्याप्तिप्रतिपत्तेः पटादौ पीतत्वोपलम्भात् सुवर्णत्वसिद्धिः स्यात् / प्रत्यक्षबाधनम् अन्यत्रापि / रश्मिवत्त्वे चास्य अर्थप्रकाशने आलोकापेक्षा न स्यात्; तथाहि-यद् रश्मिवत् तदर्थप्रकाशने नालोकापेक्षं यथा प्रदीपः, रश्मिवच्च भवद्भिरभिप्रेतं चक्षुरिति / तथा तद्वत्त्वे स्वसम्बद्धस्याञ्जनादेः प्रकाशकत्वप्रसङ्गः, न खलु प्रदीपस्तद्वान् स्वसम्बद्धं शलाकादिकं न प्रकाशयति इति प्रातीतिकम्। प्रयोगः-यद् रश्मिवत् तत्स्वसम्बद्धमर्थं प्रकाशयत्येव यथा प्रदीपः, रश्मिवच्च चक्षुः, तस्मात्स्वसम्बद्धं कामलादिकं प्रकाशयेदेव / न चात्र चक्षुषः सम्बन्धोऽपि नास्ति इत्यभिधातव्यम्; यतो गोलकस्वरूपं चक्षुस्तत्रासम्बद्धम्, रश्मिरूपम्, शक्तिस्वभावं वा? तत्राद्यपक्षे प्रत्यक्षविरोधः; गोलकस्वरूपस्य चक्षुषः काचादौ सम्बन्धप्रतीतेः / द्वितीयपक्षेऽपि तत्रास्य सम्बन्धोऽस्त्येव, नहि स्फटिकादिकूपिकामध्यगतप्रदीपादिरश्मयः ततो निर्गच्छन्तः तत्संयोगिना न सम्बद्धाः तत्प्रकाशका वा न भवन्तीति प्रतीतम् / शक्तिरूपमपि चक्षुः व्यक्तिरूपचक्षुषो भिन्नदेशम्, अभिन्नदेशं वा स्यात् ? न तावद्भिनदेशम्; तच्छक्तित्वव्याघातानुषङ्गात्, निराश्रयत्वप्रसङ्गाच्च / न हि अन्यशक्तिरन्याश्रयायुक्ता, तद्देशद्वारेणैवार्थोपलब्धिप्रसङ्गश्च / अथ ततोऽभिन्नदेशम्; तत्तत्र सम्बद्धम्, असम्बद्धं वा ? यदि सम्बद्धम्; बहिरर्थवत् स्वाश्रयं तत्सम्बद्धञ्चाञ्जनादिकं प्रकाशयेत् / अथासम्बद्धम्; कथामाधेयं नाम अतिप्रसङ्गात् ? यदपि-'तैजसत्वात्' इति साधनमुक्तम् तदप्ययुक्तम् असिद्धत्वात् / तदसिद्धत्वञ्च कुतश्चित्प्रमाणात्तत्र तस्याऽप्रतीतेः / तद्धि गोलकस्वरूपस्य चक्षुषोऽभ्युपगम्येत, रश्मिरूपस्य वा ? यदि गोलकस्वरूपस्य; तदाऽध्यक्षबाधा, भासुररूपोष्णस्पर्शरहितस्यास्य अध्यक्षतः प्रतीतेः / अनुमानबाधश्च; तथाहि-चक्षुस्तैजसं न भवति, भासुररूपोष्णस्पर्शरहितत्वात्, यद् यत्तथाविधं तत् (तत्तत्) तैजसं न भवति यथा मृत्पिण्डादिः, भासुररूपोष्णस्पर्शरहितञ्च चक्षुः, तस्मात्तैजसं न भवतीति / तथा, न तैजसं चक्षुः, तमःप्रकाशकत्वात्, यत्पुनस्तैजसं तन्न तमःप्रकाशकं यथा आलोकः, तम:प्रकाशकञ्च चक्षुः, तस्मान्न तैजसमिति / रश्मिरूपस्य तु चक्षुषोऽसिद्धस्वरूपत्वान्न तैजसत्वमुपपद्यते, न खलु रश्मयः प्रत्यक्षादितः प्रसिद्धयन्तीत्युक्तम् / ननु मार्जारादिनेत्रे नेत्रत्वं रश्मिवत्तया व्याप्तं प्रतिपन्नम्, अतोऽन्यत्रापि मनुष्यादिनेत्रे नेत्रत्वाद्रश्मिवत्त्वं ततस्तैजसत्वञ्च प्रसाध्यते, तर्हि गवादिनेत्रे नेत्रत्वं कृष्णत्वेन नरनारिनेत्रे च धावल्येन व्याप्त प्रतिपन्नम्, अतोऽविशेषेण कार्यं धावल्यं वा पार्थिवत्वम् आप्यत्वं वा प्रसाध्यताम् अविशेषात् / यदपि-'रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्' इति तत्तैजसत्वे साधनमभिहितम्, तदपि जलाउञ्जन-चन्द्र-माणिक्यादिभिरनैकान्तिकम् / न चैतद्वक्तव्यम्जलादीन् प्रति गत्वा व्यावृत्तानां