________________ विभाग-३ 145 सम्भवात् / गोलकस्वभावस्य तु चक्षुषो बहिर्देशावस्थायित्वे प्रत्यक्षबाधा; अर्थदेशासम्बद्धस्यास्य शरीरप्रदेश एव प्रत्यक्षतः प्रतीतेः / बहिःकारणप्रभवत्वमपि मनसैवाऽनैकान्तिकम्; आत्मापेक्षया हि बहिःकारणं पुद्गलतत्त्वम् तत्प्रभवत्वञ्च चक्षुरादीन्द्रियवत् मनसोऽस्त्येव, अस्यापि पौद्गलिकत्वेन षट्पदार्थपरीक्षायां प्रसाधयिष्यमाणत्वात् / इन्द्रियस्वरूपातीतत्वञ्च अपसिद्धान्तप्रसङ्गादनुपपन्नम् / मनोऽन्यत्वमपि मनसः सिद्धौ सिद्ध्येत, न च तत्सिद्धं भवत्परिकल्पितस्य मनसः षट्पदार्थपरीक्षायां निराकरिष्यमाणत्वात् / सिद्ध्यतु वा; तथापि बाह्येन्द्रियत्वं मनोऽन्यत्वे सतीन्द्रियत्वम् उच्यते, तत्र च मनोव्यवच्छेदार्थं बाह्यविशेषणमयुक्तम्: तस्यापि सर्वत्र प्राप्यकारित्वात्, सुखादौ हि संयुक्तसमवायादिसम्बन्धात्, व्याप्तौ तु सम्बन्धसम्बन्धात् तज् ज्ञानमुत्पादयति रूपादौ नेत्रादिवत्, न खलु रूपादौ नेत्रादेरपि सम्बन्धसम्बन्धादन्यः सम्बन्धोऽस्ति / धर्मित्वेन चात्रोपात्तं चक्षुः गोलकस्वभावम्, रश्मिरूपं वा? प्रथमपक्षे प्रत्यक्षविरोधः; अर्थेनासम्बद्धस्य अर्थदेशपरिहारेण शरीरप्रदेश एव गोलकस्वभावस्य चक्षुषः प्रत्यक्षतः प्रतीतेः, अन्यथा तद्रहितत्वेन नयनपक्ष्मप्रदेशस्योपलम्भः स्यात् / द्वितीयपक्षे तु धर्मिणोऽसिद्धिः; रश्मिरूपस्य चक्षुषः कुतश्चित्प्रमाणादप्रसिद्धः / तत्साधकं हि प्रमाणं प्रत्यक्षम्, अनुमानं वा स्यात् ? न तावत्प्रत्यक्षम्; अर्थवत्तत्र तत्स्वरूपाऽप्रतीते: न खलु रश्मयः प्रत्यक्षतः प्रतीयन्ते विप्रतिपत्त्यभावप्रसङ्गात्, नहि नीले नीलतया प्रतीयमाने कश्चिद् विप्रतिपद्यते / किञ्च, इन्द्रियार्थसन्निकर्षजं प्रत्यक्षं भवन्मते, न चार्थदेशे विद्यमानैस्तैः अपरेन्द्रियस्य सन्निकर्षोऽस्ति यतस्तत्र प्रत्यक्षमुत्पद्येत अनवस्थाप्रसङ्गात् / अनुमानतोऽपि अतएव, अन्यतो वा तत्सिद्धिः स्यात् ? यदि अतएव; अन्योन्याश्रयःप्रसिद्ध हि अनुमानोत्थानेऽतस्तत्सिद्धिः, अस्याश्चानुमानोत्थानमिति / अनुमानान्तरात् तत्सिद्धावनवस्था; धर्मिणस्तत्राप्यनुमानान्तरात् सिद्धिप्रसङ्गात् / एतेन यदुक्तं रश्मिप्रसाधकमनुमानम्-'रश्मिवच्चक्षुः तैजसत्वात्' इति; तत्प्रत्याख्यातम् उक्तपक्षदोषाणामत्राप्यविशेषात् / किञ्च, रश्मिवत्ता गोलकरूपस्य चक्षुषः प्रसाध्यते, तद्व्यतिरिक्तस्य वा? न तावत्तद्व्यतिरिक्तस्य; तस्यासिद्धस्वरूपत्वात्, अपसिद्धान्तप्रसङ्गाच्च / गोलकरूपस्य तु तत्साधने पक्षस्य प्रत्यक्षबाधा; प्रभासुरप्रभारहितस्य गोलकस्य प्रत्यक्षतः प्रतीतेः / अथ अदृश्यास्तद्रश्मयः अनुद्भूतरूपस्पर्शवत्त्वात्, अतो नास्य प्रत्यक्षबाधा; कथमेवं रूपप्रकाशकत्वं तस्य स्यात् ? तथाहि-चक्षू रूपप्रकाशकं न भवति, अनुद्भूतरूपत्वात्, जलसंयुक्तानलवत् / न चानुद्भूतरूपस्पर्श तेजोद्रव्यं क्वचित् प्रतीयते / जलहेम्नो सुररूपोष्णस्पर्शयोरनुद्भूतिप्रतितिरस्ति; इत्यप्यसम्यक्; उभयानुद्भूतेस्तत्राप्यप्रतिपत्तेः / दृष्टानुसारेण चादृष्टार्थकल्पना, अन्यथा पृथिव्यादेरपि तद्वत्ताप्रसङ्गः; तथाहि-रश्मिवन्तः पृथिव्यादयः द्रव्यत्वात् प्रदीपवत् / यथैव हि तैजसत्वं रश्मिवत्तया व्याप्तं प्रदीपे प्रतिपन्नं तथा द्रव्यत्वमपि / अथ ततस्तेषां तत्साधाने प्रत्यक्षविरोधः, सोऽन्यत्रापि समानः / अथ