________________ 144 सन्दर्भग्रन्थाः तस्मानिसृताः रश्मयोऽर्थदेशं यावत् प्रसृताः सन्ति प्रदीपान्निसृतरश्मिवत् / अधिष्ठानपिधाने विषयाग्राहकत्वञ्च न प्राप्यकारित्वं विहन्ति घ्राणादेस्तत्सद्भावेऽपि प्राप्यकारित्वाऽविरोधात् / न च रश्मिवत्त्वं चक्षुषोऽसिद्धम्; तत्साधकप्रमाणसद्भावात् / तथाहि-रश्मिवच्चक्षुः तैजसत्वात् प्रदीपवत् / नचेदमप्यसिद्धं तत एव, तथाहि-तैजसं चक्षुः, रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात् तद्वदेव, अतो रश्मिवत्त्वस्यात्र प्रसिद्धेः / 'प्राप्यकारित्वे चक्षुषो महतः पर्वतादेरप्रकाशप्रसङ्गः' इत्येतत्प्रत्याख्यातम् धत्तूरकपुष्पवद् आदौ सूक्ष्माणामप्यन्ते महत्त्वोपपत्तेस्तद्रश्मीनाम् / ते हि आलोकमिलिता यावदर्थं वर्द्धन्ते, महतः पर्वतादेः प्रकाशकत्वान्यथानुपपत्तेः / ननु चक्षुषः प्राप्यकारित्वे कथं शाखाचन्द्रमसोर्युगपद्ग्रहणम् ? इत्यपि वार्तम्; युगपद् ग्रहणस्यासिद्धत्वात्; प्रथमतो हि चक्षुः सन्निकृष्टां शाखां प्राप्य प्रकाशयति, पश्चाद्विप्रकृष्टं चन्द्रमसम्, युगपत्प्रतिपत्त्यभिमानस्तु उत्पलपत्रशतव्यतिभेदवद् भ्रान्तिनिबन्धनः / / दूरनिकटादिव्यवहारोऽपि चक्षुषः प्राप्यकारित्वे न दुर्घटः; शरीरापेक्षया चक्षुर्विषयस्य सन्निकृष्टविप्रकृष्टतोपपत्तितस्तस्य सुघटत्वात् / यदि चाप्राप्यकारि चक्षुः स्यात्तर्हि कुड्याद्यव्यवहितवत् तद्व्यवहितस्यापि घटादेर्मेर्वादेश्चानेकयोजनशतव्यवहितस्यापि तत् प्रकाशकं स्यात् क्वचित्प्रत्यासत्तिविप्रकर्षाऽभावात्, न चैवम्, अतः प्राप्यकारि तत् प्रतिपत्तव्यम् / कारकत्वाच्च; यत् कारकं तत् प्राप्यकारि यथा वास्यादि, कारकञ्च चक्षुरिति / यच्चास्याप्राप्यकारित्वे साधनमभिधीयते-'अत्यासन्नार्थाऽप्रकाशकत्वात्' इति; तत् साध्याऽविशिष्टत्वात् असाधनमेव / पर्युदासप्रतिषेधे हि यदेवास्याऽप्राप्यकारित्वं तदेव अत्यासन्नार्थाऽप्रकाशकत्वम् / प्रसंज्यप्रतिषेधस्तु जैनै भ्युपगम्यते, अपसिद्धान्तप्रसङ्गादिति / अत्र प्रतिविधीयते / यत्तावदुक्तम्-'बाह्येन्द्रियत्वात्' इति; तत्र किमिदं बाह्येन्द्रियत्वं नाम? बहिरर्थग्रहणाभिमुख्यम्, बहिर्देशावस्थायित्वम्, बहिःकारणप्रभवत्वम्, इन्द्रियस्वरूपातीतत्वम्, मनोऽन्यत्वं वा स्यात् ? तत्राद्यविकल्पे मनसाऽनेकान्तः; तस्याप्राप्यकारित्वेऽपि बहिरर्थग्रहणाभिमुख्यतो बाह्येन्द्रियत्वसद्भावात् / द्वितीयविकल्पेऽपि रश्मिरूपस्य, गोलकस्वभावस्य वा चक्षुषो बहिर्देशेऽवस्थायित्वं स्यात् ? प्रथमपक्षे किमिदं तत्र तस्यावस्थायित्वम्आश्रितत्वम्, प्रकाशकत्वेन प्रवृत्तिर्वा ? तत्राद्यविकल्पे अपसिद्धान्तः; रश्मिरूपस्य चक्षुषो भवता बहिर्देशाश्रितत्वस्यानाभ्युपगमात्, गोलकान्तर्गततेजोद्रव्याश्रया हि रश्मयो भवद्भिः प्रतिज्ञाताः / द्वितीयविकल्पे त्वसिद्धो हेतुः; रश्मिरूपस्य चक्षुषो ग्राहकप्रमाणाऽभावतः प्रकाशकत्वेन बहिर्देशे तत्प्रवृत्तेरसिद्धः / तद्ग्राहकप्रमाणाभावश्च अत्रैव प्रतिपादयिष्यते / दृष्टान्तश्च साधनविकलः; तथाविधबाह्येन्द्रियत्वस्य त्वगादाव